________________
चतुर्थरने प्रथममरीचि
चतुर्थ रत्नम्। अलङ्कारस्तु शोभायै इत्युक्तम् । तच साधु । यत:
गुणवत्यपि निर्दोषेऽलङ्कारैः काव्यराजनि ।
जायतेऽन्यैव सुषमा रत्नालङ्करणैरिव ॥ · आहुश्च-'निर्दोष गुणवत्काव्य'मित्यादि । तत्र चमत्कार. विशेषकारित्वमिति (2) सामान्यलक्षणम् । शब्दार्थनिष्ठत्वेन विशेपितं विशेषणद्वयम् ।(२) 'परम्परया रसोपकारित्वंत'दित्यन्ये । तत्र प्रथमं शब्दालङ्कारान् विभजते-- चित्रपक्रोक्त्यनुप्रासगढश्लेषप्रहेलिकाः ॥ प्रश्नोत्तरं च यमकमष्टाऽलङ्कृतयो ध्वनी ॥१॥
तत्र कौतुकविशेषकारि चित्रम् । तच्च खड्गचक्रपयादिभेदादनन्तम् । यथा
सर्वतोभद्रधेन्वादि गोमूत्रीमुरजादि च ।
गतप्रत्यागताधाहुश्चित्रकाव्यं कवीश्वरा (३)॥ तच्च माघादौ मुव्यक्तत्वानेहोदाहियते । अन्याभिप्रायेणोक्तं वाक्यमन्येनाऽन्यार्थकतया यद्योज्यते-सा वक्रोक्तिः। एतदेव वा. कोवाक्यमुच्यते । यथा
कोऽयं द्वारिः हरिः प्रयायुपवनं शाखामुगस्यात्र (४) किं - कृष्णोऽहं दापिते ! विभेमि सुतरां कृष्णादहं वानराव । मुग्धेऽहं मधुसूदनो व्रज लता तामेव पुष्पान्विता
मित्य निर्वचनीकृतो दयितया हीणो(५) हरिः पातु वः॥ (१) कारित्वमलङ्कार--इति खपु० पाठः। . . (२) विशेषलक्षणद्वयम्-इति क,गपु० पाठः। (३) मुनीश्वरा:-इति क,खपु० पाठः। (४) शाखामृगेणात्र-इति कपुस्तके। (५) मुग्धो -इति कपु० पाठः । .