________________
२८ अलङ्कारशेखरेविरुद्धं न तथा वाक्ये(१) 'विरुद्धां धियमुत्पादयत्वि'त्यभिमायेण प्रयोगे तन दोष इत्यर्थः ।
वाक्यार्थे यथासम्भवमाहबिरसं नाऽप्रधानके ॥५॥
यथा- - क्षिप्तो हस्तावलग्न: प्रसभमभिहतोऽप्याददानोंऽशुकाऽन्तं
गृह्णन् केशेष्वपास्तश्वरणनिपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन योऽवधूतत्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः ___ कामीवापराधः स दहतु दुरितं शाम्भवो वः वारामिः ॥ व्यर्थ न नर्मणि ग्राम्यम् 'द्वयर्थैः पदैः पिशुनयेच्च रहस्यवस्त्विति भरतोक्तेः।
सर्वत्र हेतुमाहरसहानेरयोगतः ॥
अथ सर्वसाधारणमदोषत्वमाहतत्र तत्राभिधातव्ये तथाऽनुकरणादिषु ॥ ६॥ उन्मत्ताधभिधानेषु कोऽपि दोषो न विद्यते ॥ . श्रीपादस्तु--
तदर्थातिशये औध्ये दैन्ये कोपेऽवधारणे । विषादे विस्मये हर्षे पुनरुक्तं न दुष्यति । इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे
गुणरत्ने वैशेषिकगुणमरीचिः।
M
(१) काव्ये-इति क,खपु० पाठः । .
ठ:1..
.
.
.
.