________________
३२.
अलङ्कारशेखरेअथाऽर्थालङ्कारान विभजतेउपमारूपकोत्प्रेक्षासमासोक्तिरपहुतिः॥ .... समाहितं स्वभावश्च विरोधः सारदीपकौ ॥१॥ सहोक्तिरन्यदेशत्वं विशेषोक्तिविभावने ॥ एवं स्युरीलङ्काराश्चतुर्दशन चापरे ॥२॥ तत्र भेदे सति साधर्म्यम्-उपमा। अधिकगुणवत्तया सम्भाव्य. मानमुपपानम् । निकष्टगुणवत्चया सम्भाव्यमानमुपमेयम् । तां विभजते, वाक्यार्थाऽतिशयश्लेषनिन्दाभूतविपर्ययाः॥
संशयो नियमः स्वं च विक्रियेत्युपमा दश ॥३॥ तत्र वाक्यार्थेनैव वाक्यार्थो यदुपमीयते-सा वाक्यार्थोपमा । सा च द्वयी, प्रत्येकं सादृश्यानपेक्षा तत्सापेक्षा च । आया यथा--
कामिनीनयनकज्जलपकात्थितो मदनमत्तवराहः ।
कामिमानसवनान्तरचारी कन्दमुत्खनति मानलतायाः ॥ अन्त्या यथा
त्वदाननमधीराक्षमाविर्दशनदीधिति ।
भ्रमभृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥ यत्रातिशयधर्मोपन्यासः-साऽतिशयोपमा । यथा--
कल्पद्रुमो न जानाति न ददाति बृहस्पतिः ।
अयं च जगतीजानि नाति च ददाति च ॥ पदश्लेषनिबन्धनसाम्यम्-श्लेषोपमा । यथा
तमालपत्राभरणा राजते विलसद्वयाः।
बालेवोद्यानमालेयं सालकाननशोभिनी॥ पत्रोपमानस्य निन्दया प्रतिक्षेपः सा निन्दोपमा । यथा--