Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 86
________________ पञ्चमरने प्रथममरीचिः । यथा करकिसलयेन मुशा रागसरित्पङ्कजेनेव । . शिथिलितविद्रुममहसा स्पृष्टोऽहं चेतनामलभे(१)। चन्द्रकलाकुन्दकोरकैश्च नखाः ॥१०॥ ..... यथा निर्सिताशोकदलप्रसूति पाणिद्वयं चारुनखं तदीयम् । नवोदितेन्दुप्रतिमस्य शोभा व्योम्नः प्रदोषे विफलीचकार । निर्दोषरत्रमुभगैः कुन्दकोरककान्तिभिः । नखैः कमलपत्राणि बाला चक्रे पृथक् पृथक् ॥ पूगाब्जतत्कोरकविल्वतालगुच्छेभकुम्भाद्रिघटेशचक्रः। सौवीरजम्बीरकबीजपूरसमुद्गछोलङ्गफलैरुरोजः ॥११॥ यथाकनकक्रमुकायितं पुरस्तादथ पङ्करुहकोरकायमाणम् । क्रमशः कलशायमानमास्ते(२)सुदृशो वक्षसि कस्य भागधेयम्॥ कलशीयति कुचकमलं कमलीयति लोचनभ्रमरः । यणुकीयति पुनरस्या हरिणदृशः प्रत्यहं मध्यः ।। स्तनबिल्वद्वयी तस्याः प्रययौ चक्रवाकताम् । . उड्डीय पुनरद्रीणां जहार विपुलां श्रियम् ॥ चिरप्रवासिंस्तव वाटिकायां बिभर्ति चत्वारि फलानि वीरुत् । सौवीरजम्बीरकबीजपूरतालान्यसौ धास्यति(३) किं न जाने ॥ ..'खगौ वा गुच्छौ वे'त्यादि। स्वयम्भूः शम्भूरम्भोजलोचने ! त्वत्पयोधरः। नखेन कस्य धन्यस्य चन्द्रचूडो भविष्यति ॥ . ..... (१) चेतनां न लभे-इति क,खपु० पाठः। (२) कमलायमानमास्ते-इति कपुस्तके पाठः। ... (३) विधास्यतीत्यर्थे धास्यतीति प्रयोगः,धारयिष्यतीति वाऽर्थः।

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152