________________
पञ्चमरने प्रथममरीचिः ।
यथा
करकिसलयेन मुशा रागसरित्पङ्कजेनेव । . शिथिलितविद्रुममहसा स्पृष्टोऽहं चेतनामलभे(१)। चन्द्रकलाकुन्दकोरकैश्च नखाः ॥१०॥ .....
यथा
निर्सिताशोकदलप्रसूति पाणिद्वयं चारुनखं तदीयम् । नवोदितेन्दुप्रतिमस्य शोभा व्योम्नः प्रदोषे विफलीचकार । निर्दोषरत्रमुभगैः कुन्दकोरककान्तिभिः ।
नखैः कमलपत्राणि बाला चक्रे पृथक् पृथक् ॥ पूगाब्जतत्कोरकविल्वतालगुच्छेभकुम्भाद्रिघटेशचक्रः। सौवीरजम्बीरकबीजपूरसमुद्गछोलङ्गफलैरुरोजः ॥११॥ यथाकनकक्रमुकायितं पुरस्तादथ पङ्करुहकोरकायमाणम् । क्रमशः कलशायमानमास्ते(२)सुदृशो वक्षसि कस्य भागधेयम्॥ कलशीयति कुचकमलं कमलीयति लोचनभ्रमरः । यणुकीयति पुनरस्या हरिणदृशः प्रत्यहं मध्यः ।। स्तनबिल्वद्वयी तस्याः प्रययौ चक्रवाकताम् । .
उड्डीय पुनरद्रीणां जहार विपुलां श्रियम् ॥ चिरप्रवासिंस्तव वाटिकायां बिभर्ति चत्वारि फलानि वीरुत् ।
सौवीरजम्बीरकबीजपूरतालान्यसौ धास्यति(३) किं न जाने ॥ ..'खगौ वा गुच्छौ वे'त्यादि।
स्वयम्भूः शम्भूरम्भोजलोचने ! त्वत्पयोधरः। नखेन कस्य धन्यस्य चन्द्रचूडो भविष्यति ॥ . ..... (१) चेतनां न लभे-इति क,खपु० पाठः। (२) कमलायमानमास्ते-इति कपुस्तके पाठः। ... (३) विधास्यतीत्यर्थे धास्यतीति प्रयोगः,धारयिष्यतीति वाऽर्थः।