SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अलङ्कार शेखरे - तद्दन्ता नागरङ्गानि छोलङ्गानि पयोधरौ । ओष्ठाधरौ च विम्बानि सा मे फलमयी प्रिया ॥ 'दमनके' स्यादि, 'बन्धूकतीत्यादि । तत्कोर कैर्यथा - अधरः किसलयमङ्घ्री पद्मौ कुन्दस्य कोरका दन्ताः । कः कौ के कं कौ कान प्रहसति इसतो हसन्ति हरिणाक्ष्याः ॥ 'तारारदाना 'मित्यादि । ४६ वाणी हंसालिशुक किन्नरैः ॥ वेणुको किलवीणाभिर्माधुर्य मधुरैः सह ॥ ९ ॥ यथा 'हे कम्बुकण्ठि ! शुककिन्नरहसवाणी'त्यादि । तस्य गोप्तुर्द्वरेफाणां कर्णोत्पलनिपातिनाम् । स्वरसंवादिभिः कण्ठैः शालिगोध्यो जगुर्गुणान् ॥ कण्ठः किमस्याः पिकवेणुवीणास्तिस्रो जिताः सूचयति त्रिरेखः । इत्यन्तरस्तूयत यत्र कापि नलेन बाला कलमालपन्ती ।। माधुर्यमिति । मधुद्रोणीव मन्दारमरन्दाऽमन्ददृष्टिवत् । सुधासार इव द्राक्षागोणी वाणी तव प्रिये ! ॥ बाहुबिसेन विद्युइल्लिमृणालैः बिसमृणालयोरवान्तरभेदविवक्षयोक्तमिदम् । यथा अस्या भुजाभ्यां विजिताद्विसाकि पृथक्करोऽगृह्यत तत्प्रसूनम् । इष्यते तन्न गृहाः श्रियः कैर्न गीयते वा कर एव लोकै। ॥ विद्युन्मृणालसुभगा बाहुवल्ली मृगीदृशः । यूनां तु कण्ठकाण्डेषु जाता कनकशृङ्खला ॥ करस्तु पद्मेन ॥ पल्लवविदुमकाभ्याम्
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy