Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 69
________________ अलङ्कारशेखरेवर्णसाम्यमनुमासः । स च द्विविधः, लाटानुप्रासश्छेका. नुप्रासश्च । तत्राऽसकृदावृत्तवर्णत्वम्-लाटानुमासः । यथा अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितः । आलिङ्गितः स तन्वया कृतार्थयतु मानसम् ।। अनेकस्य व्यअनस्य सकृत्साम्यम्-छेकानुप्रासः । यथानितम्बगुर्वी गुरुणा प्रयुक्ता चधुर्विधातृप्रतिमेन तेन । चकार सामत्तचकोरनेत्रा लज्जावती लाजविमोक्षमग्नौ ।। 'पदमेकं हृदा कृत्वा तदनुपासकाम्पया आदिक्षान्तलिपो कादिक्षान्तशब्दं विचिन्तयेत्' ।। इति रहस्यम् । गूढम्-क्रियागुप्तादिः । यथा पुंस्कोकिलकुलस्यैते नितान्तमधुरारवैः । सहकारमा रम्या वसन्ते कामपि श्रियम् (१) ॥ इद च नाना । यदाहु:--.. क्रियाकारकसम्बन्धगुप्तान्यामन्त्रितस्य च । गुप्त तथा समासस्य लिङ्गस्य वचनस्य च ॥ एकोच्चारणापन्हुतभेदत्वम्-श्लेषः। यथा-'येन ध्वस्तमनोभबेने त्यादौ । अयं चाष्टधा । यदाह-- विभक्तिपदवर्णानां लिङ्गस्य वचनस्य च । भाषामकृत्योर्भेदेन श्लेषाः स्युः प्रत्ययस्य च ॥ प्रहेलिका-सकृत्पश्नः । सा च च्युताक्षरा दत्ताक्षरादिः । यथा विदग्धः सरलो रागी नितम्बोपरि संस्थितः । तन्वझ्याऽऽलिङ्गितः कण्ठे कलं कूजति को विटः ॥ (१) अत्र 'अधुः' इति क्रिया । रम्या एते सहकारदमाः पुंस्को. किलकुलस्य आरवसन्ते नितान्तं कामपि श्रियं अधुःइत्यन्वयः।

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152