SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ द्वितीयरने द्वितीयमरीचिः। व्याकीर्णम्-व्यवहितान्वयम् । यथा-- ममृणचरणपातं गम्यतां भूः सदर्ण विरचय सिचयान्तं मूर्ध्नि धर्मः कठोरः । - तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधुभिर्वीक्षिता शिक्षिता च ॥ अत्र 'तद्गम्यताम् तद्विरचये'त्यन्वये तदिति व्यवहितम् । समाप्तपुनरात्तकम्-समाप्ती प्रधानवाक्यार्थबोधे जाते पुनरुपात्तम् । यथा 'निर्माल्यं नयनश्रिय' इत्यादौ 'चिरा'दिति । यथा च(१)-- क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवो . ___ झङ्कारो रतिमअरीमधुलिहां लीलाचकोरध्वनिः । तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण काणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः । अत्र 'वेणुस्वन' इति । भग्नक्रमम्-यत्रार्थः शब्दो वा (२)क्रमेण नास्ति । उभयं यथा तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम् । कान्तिप्रतापौ भवतः सूर्याचन्द्रमसो समौ ॥ भग्नयति यथा 'रामे तटान्तवसतौ कुशतल्पशायिन्यवापि' इत्यादौ । अत्राऽऽवश्यकी पदशेषयतिनास्ति । भग्नच्छन्दो यथा ततः परमोमित्युक्त्वा प्रतस्थे मुनिमण्डलम् । भगवानपि संप्राप्तः प्रथमोद्दिष्टमाश्रमम् ॥ अत्र (३)पश्चमं लघु कर्तुमर्हति । यत्रापर्यवसितवाक्यमध्ये तदनपेक्ष वाक्यान्तरमनुपविशति, तद्वाक्यगर्भम् । यथा योग्यो यस्ते पुत्रः सोऽयं दशवदन! लक्ष्मणेन मया। (१) द्वितीयमिदमुदाहरणं गपुस्तके नास्ति । (२) शाब्दो वा क्रमो नास्ति-इति गपु० पाठः। (३) एतदनन्तरं-चतुर्थे गौरवे-इत्यधिकः कपु० पाठः ।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy