SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ । अलङ्कारशेखरेअथेदानी साधारणान् (१) वाक्पदोषानाह-- न्यूनं विसन्धि व्याकीर्ण समाप्तपुनरात्तकम् ॥ . भग्नक्रमयतिच्छन्दो वाक्यगर्भमरीतिमत् ॥ १ ॥ अधिमृष्टविधेयांशं समुदायार्थवर्जितम् ॥ विरुद्धमतिकृवाक्ये दोषा द्वादश कीर्तिताः ॥२॥ तत्र न्यूनम्-अन्वयबोधप्रयोजकपदशून्यम् । यथा-- तथाभूतां दृष्ट्वा नृपसदसि पाश्चालतनयां - बने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः ॥ विराटस्यावासे स्थितमनुचितारम्भनिभृतं - गुरुः खेदं खिन्ने भजति मयि नाद्यापि कुरुषु ॥ अत्र ‘स्थित'मित्यनन्तर'मस्माभिरिति, 'खिब'इत्यस्मात्पू. 'मिथ' मिति च दातुमर्हति । विसन्धि-सन्धिविरहो विरु. द्धसन्धिश्च । आयोऽपि द्विविधः, ऐच्छिकः प्रगृह्यादिनिबन्धनश्च । ऐच्छिकः सकृदपि दोषः । उभयोरुदाहरणम्(२)-- मेघानिलेन अमुंना एतस्मिन्नद्रिकानने । पादपा उत्तमा उच्चा इदानीमेव पातिताः ॥ चरमश्चतुर्विधः, अश्लीलः कष्ट उत्वप्राप्त(३)विसर्गों लुप्तवि. सर्गश्च । क्रमेणोदाहरणानि-- बुरिन्दीवरश्रेणिबान्धवा यत्र वायवः । मञ्जर्युद्गमगर्भाऽसौ ताल्युर्वी विध्यते ॥ धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः । यस्य भृत्या बलोसिक्ता भक्ता बुद्धिप्रभाविताः ॥ (१) असाधारणान्-इति खपु० पाठः। (२) उभयोरुदाहरणम्-इति कपुस्तके नास्ति । (३) उपहतविसर्गो-- इति गपु०पाठः।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy