________________
द्वितीयरने प्रथममरीचिः ।
१५
अत्र 'अपिधानारा'च्छन्दौ । व्यर्थम् - प्रकृतार्थानुपयुक्तम् ।
यथा
बिभर्ति यश्च देहार्थे प्रियामिन्दुं हि मूर्धनि ।
सवै देवः खलु त्वां तु पुनातु मदनान्तकः ॥ अत्र ‘च हि वै खलु तु' शब्दाः । अश्लीलम् - औज्ज्वल्याभाववत् । तदपि त्रिविधम् । अमङ्गलव्रीडाजुगुप्साभेदात् । क्रमेणोदाहरणम्
M
'विनाशान्मारुतस्तस्य सु ( १ ) मरुत्साधनोऽपि सन् । नासाग्रेण स सुग्रीवो वायुं त्यजति केवलम् ॥ अत्र 'विनाशसाधनवायु' शब्दाः । अप्रतीतम् - शास्त्रमात्रम - सि (२) द्धम् । यथा-
त्रुटी विश्रान्तिरित्येके पीलावस्तीति चापरे । स्वन्मध्यमाऽणिमा तन्वि ! नं केनापि विभाव्यते ॥
अत्र 'त्रुटिपीलु' शब्दौ । असाधु- अनुशासनविरुद्धम् । यथा-शातोदरि ! कथङ्कारं मानमेतचिकीर्षसि । मानिनीमानदलनो विजयत्येष चन्द्रमाः ॥ अत्र 'मानमेत, द्विजयती 'ति । अवाचकम् प्रकृतार्थाशक्तम् । यथाभूयो मत्तद्विरदगमनां हारकेयूरयु (३) क्तां पीनोत्तुङ्गस्तनभरन मन्मध्यभागाभिरामाम् ॥ स्मेरोदश्चन्नवकिसलयस्पर्धिताम्राधरौष्ठीं
लक्ष्मीमक्षिस्फुरितवदनामन्वहं संस्मरामि ॥ अत्र 'लक्ष्मी' पदमङ्गनायाः । ग्राम्यं त्ववाचका लीलान्यतरान्तर्भावान्न पृथगिति ।
इस्लङ्कारशेखरे दोषरत्ने पददोषमरीचिः ॥
(१) सुमहत - इति ख० पु० पाठः ।
(२) विरुद्धम् - इति खपु० पाठः । (३) भव्यां - इति पु० पाठः ।
-