________________
अलंङ्कारशेखरे -
द्वितीयं रत्नम् |
दोषास्त्याज्या इत्युक्तम् । युक्तं चैतत् । यदाह (१) -- दोषः सर्वात्मना त्याज्यो रसहानिकरो हि सः । अन्यो गुणोऽस्तु वा मास्तु महानिर्दोषता गुणः ॥ दण्डी च -
१४
तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ॥ दोषत्वं च रसोत्पत्तिप्रतिबन्धकत्वम् । रसकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वमिति यावत् । तत्र प्रथमं पददो
पानाह—
कष्टाप्रयुक्त सन्दिग्धव्यर्था लीलाप्रतीतकाः ॥ 'असाध्य वाचकौ दोषाः पदेऽष्टावेव भाषिताः ( २ ) ॥ १ ॥ कष्टं श्रुतिकटु । यथा -
बर्हिनिहादनार्हेऽस्मिन्काले जीमूतमालिनि ।
आलिङ्गितः स तन्वङ्गया कार्ता लभतां चिरात् ॥ अत्र 'बहिनिहादनकर्तार्थ्या' दिशन्दाः । अप्रयुक्तम्-तथाSSनामपि कविभिर्नादृतम् । यथा
तोऽयं दारुणाचारो न हन्ति सुरनिम्नगाम् । अतो मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथवा ॥ अत्र 'हन्ती'ति गमने, 'दैवत 'शब्दः पुंसि कविभिर्न प्रयुक्तः । सन्दिग्धम् - सन्देहजनकम् । यथा
अपिधानेन हे वत्स ! किमर्थमिह वर्तसे । आरादेवास्ति स प्रायो यतस्ते भयमुस्थितम् ॥
--
( १ ) इत्यन्तः पाठः कपुस्तके नास्ति । ( २ ) नापरे - इति गपु० पाठः ।