________________
अलङ्कारशेखरे
रक्षनं गदि शक्तिमृत्युवशं नीयते विवशः ॥
अत्र तृतीयपादगर्भता। अरीतिमत्-यां रीतिमुपक्रम्य प्रवृत्तं तद्भङ्गवत् । यथागाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । .. विश्रब्धः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्लले
विश्राम लभतामिदं च शिथिलज्यावन्धमस्मद्धनुः ।। अत्र तृतीयपादेऽनभिहितकादरात्तद्भङ्गः। अविमृष्टविधेयांशम्प्राधान्याऽनिर्दिष्टविधेयकम् । यथा
वपुर्विरूपाक्षमलक्ष्यजन्मता, दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्वालमृगाक्षि! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥ अत्र जन्मोद्दिश्यालक्ष्यत्वं विधेयम् , तच्च समासप्रविष्टतया न प्राधान्यन निर्दिष्टम् । समुदायार्थवर्जितं यथा-- जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि । तं ब्राह्मणी पृच्छति पुत्रकामा राजन्!रुमायां लशुनस्य कोऽध:(१)। अथ विरुद्धमतिकृत्
कुबेरस्येव भगवान् भवानीरमणो हरः। . अकार्यमित्रमेकोऽसौ वासुदेवः किरीटिनः ॥
अत्र 'भवानीरमणा, कार्यमित्र' शब्दौ विरुद्धां मतिं कुरुतः। अत्राऽसमर्थसमासो दोषान्तरमिति गोवर्धनः । यथा
प्राक्प्रत्यक्पृथिवीभृतोः परिषदि प्रख्यातसंख्यावता___. महायाऽद्भुततर्ककर्कशतया विच्छिद्य विद्यामदम् ।
ये केऽप्युत्कलभूपते ! तव सभासंभाविताः पण्डिताः .. पत्रं श्रीजयदेवपण्डितकविस्तन्मूर्ध्नि विन्यस्यति(२) । इत्यलङ्कारशेखरे दोषरत्ने वाक्यदोषमरीचिः ।
(१) कोऽर्थः-~-इति गपु० पाठः । (२) पद्यमिदं गपुस्तके नोपलभ्यते ।