________________
द्वितीयरने तृतीयमरीचिः ।
अथाऽर्थदोषानाह
अष्टाऽर्थदोषा विरसग्राम्यव्याहतखिन्नताः ॥ हीनाधिकाऽसहक्साम्यं देशादीनां विरोधि च ॥५॥ तत्र विरसम्-प्रस्तुतरसविरुद्धम् । यथाकिं रोदिषि हा ! रावैः सुतमरणशुचं जहीहि किं म्रियसे । सफलय यौवनमधुना सममनुरक्तेन सुतनु ! मया ।।
अत्र करुणशृङ्गारयोर्महान् विरोधः । ग्राम्यम् -अविदग्धोक्तिनिष्पन्नम् । यथा
स्वपिम्यद्यानवद्याङ्गि ! सम्प्रत्याप्तस्तवान्तिके ।
मनागुरुद्वयं बाले ! कुश्चितं समुदश्चय ॥ ' व्याहतम्-उपात्तविरुद्धम् । यथाविवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः ।" साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥
अत्र शैलदुहितृत्वभावप्रकाशनत्वे विरुद्ध । एकेन प्रस्तरप्रकृ. तित्वस्यापरेण विदग्धत्वस्य लाभात् । खिन्नम्-अपुष्टम् । यथा
त्वत्प्रयाणसमुद्भूतधूली लुम्पति भास्करम् ।
कृपाणं पाणिना धत्से शूरो न त्वत्समो भुवि ॥ . अत्र धूल्युत्थापनकृपाणधारणयोरशूरसाधारण्यात् शौर्य स्यापुष्टिः । हीनोपमं यथा
कचिदने प्रसरता कचिदापद्य निघ्नता। ...
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥ .. अधिकोपमं यथा
वसिष्ठवदयं दासो हनूमानिव मूषिका । सरस्वानिव कूपोऽयं शुनीयं श्रीरिव स्वयम् ॥ अत्र यद्यप्युपमेयानां प्रकर्ष एव, तथाप्यायन्तिकरसहाने: सोऽपि न प्रतीयते । असदृशोपमं यथा
निर्ययौ रुद्रनयनात् सस्फुलिङ्गो पहानलः । वर्षन्ती शीकरासारं गङ्गा हिमगिरेरिव ।।