________________
प्रस्तावना
श्रयस्य दुविनीतभूपते राज्यशासनकालस्तावत् ६०५-६५० परिमिता. ब्दपर्यन्तोऽस्ति । भारविश्च षष्ठशतकान्ते सप्तमशतकादावासीत् । ७२०-७३० यावत्समये दण्डिनः स्थितिञ्जयते । अतः अष्टमशतकस्य पूर्वाधे उत्तरार्धे वा तस्य सम्भवो युज्यते। 'षष्ठे शतके दण्डिनः सत्ते'. ति मेक्डोनल् (Macdonell) महाशयस्य वचनं तु विचारणीयमेव । दण्डिनिर्मितप्रबन्धत्रितयमध्ये तृतीयमेकं द्विसन्धानकाव्यं धन. अयकृताद्विसन्धानकाव्यतो भिन्नं शृङ्गारप्रकाशिकायां सूचितम् । दण्डिना कृताः काव्यादर्शदशकुमारचरितादयो ग्रन्थाः प्रसिद्धा एव । नैषधम्-प्रसिद्धस्य काव्योत्तमस्य नैषधस्य कर्ता खण्डखाद्यादिवि. विधप्रबन्धनिबन्धनधरन्धरः साहित्ये तर्के च सरस्वत्याः समानली. लाविलासप्रसादमधिगतः श्रीहर्षो हि कान्यकुब्जाधीश्वरस्य प्रसिद्ध. क्षत्रियकुलाङ्गारजयचन्द्रस्य पितरं गोविन्दचन्द्रभूपालमाश्रितो द्वादशशतकान्ते विद्यमान आसीत्। भरतः-प्रसिद्धस्य नाट्यशास्त्रकर्तुरालङ्कारिकशिरोमणेः श्रीमतो भरत. मुनेः समयनिरूपणं कर्तुमशक्यमेव । भार्गवसर्वस्वम्-न ज्ञायते,कं विषयमवलम्ब्य केन वा ग्रन्थोऽयं निर्मित इति। भोजराजः-धारानगर्या राज्यासनमलर्वाणस्य भोजस्य ९९६-१०५५ ईशवीयाब्दमितोऽस्ति समयः। अमुना हि विख्यातिमता तत्र तत्र शास्त्रेषु ते ते ग्रन्था निरमायिषत। एतनिर्मितः 'शृङ्गारप्रकाशो' नामैको ग्रन्थो मद्रासराजकीयपुस्तकालये हस्तलिखितो विद्यते । म० म० कुप्पुस्वामिकृतवर्णनतः प्रतीयते, यदेष ग्रन्थः षट्त्रिंशत्प्रकाशात्मकोऽलङ्कारग्रन्थेषु सर्वेभ्यो महत्तम इति । चतुर्विशतिः प्रकाशा. स्तत्र रसनिरूपणपराः। अस्मिन् ग्रन्थे शृङ्गारस्यैव सकलरसमूलभूतत्वं प्रतिपादितम् । एतत्प्रमाणोपष्टम्भेनैव 'शृङ्गारः प्रथमो रस' इति तदितरैरपि सिद्धान्तितम् ।। महर्षिः-भरतमुनिरन्यो वा कश्चिदयं महर्षिरित्यत्र प्रमाण भावान्निश्चयो न कर्तुं शक्यते। महिमभट्टः–व्यक्तिविवेकनिर्माताऽसौ काव्यन्यायविचक्षणः प्रायो दशमशतके आसीत्। माघः -अस्य पितामहः 'सुप्रभदेवो' नाम वर्मलातभूपतेर्मन्त्री। वर्मला.
१ सर्वमिदमन्यदप्येतद्विषयकमवन्तिसुन्दरीकथातोऽवगन्तव्यम् ।