________________
१४
प्रस्तावना
तस्य च कालः सप्तमशतकस्यान्तोऽष्टमशतकस्यारम्भः । अतः अष्टमशतकोत्तराधे माघस्य सत्ता सिध्यति । अनेन तावत् शिशुपालवधाभिधं कृतं काव्यं प्रसिद्धमेव । 'माघे सन्ति त्रयो गुणा' इत्युक्तिरस्मिन् वस्तुतो घटते ।
रघुवंशम् - एतदाख्यां काव्यरूपां कालिदासस्य कृतिं विरल एव न जानीयात् ।
राजशेखरः - अस्य हि काव्यमीमांसादिकर्तुः सरस्वतीपुत्रत्वेन प्रसिद्धि गतस्य कालो दशमशतकारम्भः ।
व्यक्तिविवेकः -- एतत्कर्तुर्महिमभट्टस्य परिचयः पूर्व प्रदर्शित एव । शौद्धोदनिः– एतस्य अलङ्कारशेखराख्यग्रन्थस्य सूत्रकर्ता प्रसिद्धोऽयम् । श्रीपादः – किमपि नास्य विषये पुनर्वक्तुमावश्यकमस्ति । वक्तव्यं पूर्वमुक्तमेव ।
श्रीहर्षः - एतद्विषये लेखनीयं पूर्व लिखितमेवेति न पुनर्लेखनावश्यकता । श्रुतबोधः – छन्दःशस्त्रीयस्य ग्रन्थस्यास्य रचयिता कालिदास इति प्रसिद्धमेव ।
आदर्शपुस्तकपरिचयः ।
अलङ्कनरशेखरमिमं मुद्रापयितुं प्रवृत्तेन मया यानि यानि पुस्तकानियतो यतः समुपलब्धानि, तत्तन्नामनिर्देशादिकमिदानीं विधीयते - पुस्तकमेकं (क) संज्ञकं शिलायन्त्रालये मुद्रित मशुद्धिबहुलं 'विद्याविलास' मुद्रणालयस्वामिनः सकाशादधिगतम् । द्वितीयं (ख) संज्ञकं निर्णयसागरे मुद्रितं शुद्धमशुद्धं च काशीस्थराजकीय सरस्वतीभवनतो - लब्धम् । तृतीयं (ग) संज्ञकं प्रायः शुद्धमेव हस्तलिखितं काशीस्थराजकीय सरस्वती भवन पुस्तकसङ्ग्रहान्तर्गतं पुस्तकं तत्पुस्तकालयाध्यक्षाणां खिस्ते श्रीनारायणशास्त्रिणां प्रसादादुपलब्धम् । पुस्तकमिदमादितः स्वल्पांशेन अन्ततश्च बह्वंशेन खण्डितमिति यावदुपलब्धात्त. -स्मादपि सुमहत् साहाय्यभभूत् । चतुर्थे च (घ) संज्ञकं लक्ष्मीधरपन्तधर्माधिकारिणां पुस्तकं शुद्धं सम्पूर्ण वरकलवैद्यनाथशास्त्रिसूचन या समासादितम् । पुस्तकं चैतत् ग्रन्थस्यार्थमागे मुद्रितेऽधिगतम् । यदि प्रथमत एवाधिगम्येत, तर्हि कियन्महानुपकारः स्यात् । अस्तु, तावतैव ग्रन्थसंशोधनं सुखेन साधु विधाय तत्रत्यपाठकल्पनया, पूर्वत्र स्थले आवश्यकान्समुचितान् पादान तत्पुस्तक स्थान एकी.