________________
प्रस्तावना
१५
कृत्य ग्रन्थान्ते संन्यवेशयम् । एतत्पुस्तकचतुष्टयीसाहाय्यमाश्रयन्नुपक्रान्तमिदं कार्य कथमपि महता परिश्रमेण समपादयम् ।
उपसंहारः । पुस्तकस्यैतस्य मुद्रापणाय संशोधनकर्मणि प्रवृत्ते पुस्तकानामशुद्धीस्तत्तत्पाठभेदांश्च विलोक्य यथोचितं निर्णय कर्तुमपारयत्ययोग्येऽपि मयि सहजकरुणापूर्णया दृशा सन्दिग्धेषु स्थलेषु निर्णयोचितविचारसूचनानुग्रहेण पूज्यतमाः श्रीमन्तः सुगृहीतनामधेयाः श्रीगुरुचरणा वात्सल्यभावातिशयं प्राकाशयन्निति तेन महती सहायता. माधगतवतो यदभून्मे महत्कार्यम् , तत्र विषये किमपि लेखितं लेखनीयं न क्षमते । अवसरेऽवसरे स्वकीयसम्मतिविचारसाहायकं वितीर्य सुमहदुपकुर्वतां नियाजस्नेहशालिनां सुहृद्वरश्रीहोशिङ्गजगन्नाथ शास्त्रिणामुपकाराणामानृण्यमर्जयितुमपारयन् धन्यवादप्रदानपूर्व कमुपकारस्मरणमेव तावत्कर्तुं सन्नद्धो भवामि । एतत्प्रस्तावनालेखनौपयिकी सामग्री पुरस्कृत्य मयि स्वाभाविकं स्नेहभावं प्रदर्शितवतां यथासमयं समुचितविचारसाहाय्यं च विश्राणयतां श्रीबटुकनाथ. शर्म एम० ए० महोदयानामुपकारपरम्परा धन्यवादसहस्रेणापि न समीकतुं शक्यति तदुपकृतयो हृदये सङ्गहीताः।
पुस्तकप्रदानेन समुचितपरामर्शप्रदर्शनेन च खिस्तेश्रीनारायणशास्त्रिभिर्मयि निस्तुलां स्नेहदृष्टिं वितरद्भिरत्र विषये सुमहत्साहाय्यमा. चरितमिति तेषामुपकारान् स्मारं स्मारं सहर्षमाचरामि समुचितमेवाभिनन्दनम् । श्रीमद्भिः धर्माधिकारिभिः वरकलशास्त्रिभिश्च पुस्तकप्रदानसूचनाभ्यां सुबहूपकृतमिति तयोरुभयोनिरुपधिप्रेमभावं प्रकाशितवतोरुपकाराः कथमिव न संस्मरणगोचरतां व्रजेयुः। ।
अन्ते च दुर्लभानामुपयुक्तानामप्रकाशितानां च ग्रन्थानां प्रकाश नेन सर्वदा सुरसरस्वतीसेवां विधाय संस्कृतवाङमयप्रचारं चिकी. र्षतां मुद्रणालयस्वामिनां श्रेष्ठिवरश्रीजयकृष्णदासगुप्तमहोदयानामु. द्योगमिमं सुबहु प्रशस्य, इत्थमत्र सङ्ग्रहीतेष्वपि समुचितेषु पाठेषु सावधानं कृतेऽपि संशोधने दृष्टिदोषेण ग्रन्थेऽस्मिन्संभाविता अशद्धीः शुद्धिपत्रात्संशोध्य विद्वांसोऽलङ्कारशेखरमालोकयिष्यन्तीति दृढं विश्वस्य, सर्वान्तर्यामिणः श्रीपरमेश्वरस्य कृपयानिर्विघ्नं कार्यमिदं पूरयन् लेखादतो विरमामीत्यलं पल्लवितेन । काशी.
अनन्तरामशास्त्री वेतालः ।