________________
१२
प्रस्तावना
सम्भाव्यते, लक्ष्मणसेनराज्यसभायां विद्यमान एष एव जयदेवः स्यादिति।
एतद्न्थान्तर्गनानां ग्रन्थानां ग्रन्थकाराणां च परिचयः ।
ग्रन्थकारादिपरिचये इत्थंरूपेण प्रदत्ते, ग्रन्थेऽस्मिन् प्रमाणत्वेन सङ्गहीतानां ग्रन्थनामतोऽप्यधिगतानां ग्रन्थकाराणां वर्णानुक्रमेण परिचयः संक्षेपतो वितीर्यतेअलङ्कारसर्वस्वम्-एतत्प्रणेता केशवमिश्र एव, राजानकरुय्यको नास्तीत्यस्मादेव ग्रन्थादवगम्यते । रुय्यककृतं तु अलङ्कारसर्वस्वमन्यदेव । कविकल्पलता कर:-अरिसिंहतो देवेश्वरतश्च भिन्नोऽयं सम्भाव्यते । कादम्बरी--एतस्याः प्रसिद्धाया आख्यायिकायाः कर्ता बाणभट्टः । एष किल हर्षचरितपार्वतीपरिणयमुकुटताडितकादिप्रणेता हर्षवर्धनभूपतेः सभायामासीत् । हर्षवर्धनस्य राज्यकालश्च ६०६-६४८ मिताब्दपर्यम्तः । अतः षष्ठशतकोत्तरार्धे बाणस्य स्थितिरवधार्यते । कालिदासः--आबालप्रसिद्धस्य विख्यातकीर्तेः काव्यनाटकत्रयीकर्तुः कविकुलचूडामणेरस्य समयनिर्णयं कर्तुं प्रयतमाना भूयांसो यथाप्रमाणोपलम्भं स्वस्वकल्पनानुसारेण तं तं समयं निरदिक्षन् । वैक्रम प्रथमं शतकं तावत्तदीयं समय युक्तमुत्पश्यामः । काव्यरत्नम् एतत्प्रणेता केशवमिश्रः पूर्व प्रदर्शितपरिचय एव । कुमारसम्भवम् --कालिदासमेतत्कर्तृत्वेन प्रसिद्ध को नाम न जानाति । गोवर्धनः-सम्भाव्यते यदसौ लक्ष्मणसेनसभाश्रितस्य पूर्वोक्तस्य जयदेवस्य सहवासी स्यात् । दण्डी-अयं किल भारवेः प्रपौत्र आसीदिति तत्कृतावन्तिसुन्दरीकथा. तः प्रतीयते । तत्रैवास्य वंशपरम्परा 'पश्चिमोत्तरप्रदेशे आर्यशिखारत्ने आनन्दपुरनाम्नि पत्तने समुद्भता कौशिकगोत्रसन्ततिः अचलपुरस्थले न्यवात्सीत् । तद्वंशजनुषः, काञ्चीपुरीपरिवृढेन सिंहविष्णुना स्वपुरमानीतानारायणस्वामिनो दामोदरः (भारविः) उदप. धत । तस्य पुत्रत्रितये मध्यमो मनोहरो वंशवर्धनकरोऽभवत् । तदा. त्मजन्मनां चतुणी मध्ये श्रीवीरदत्तःकनीयान् गौ-दण्डिनामानं सुतमजीजनत' इत्थं विलोक्यते । 'नासिक'प्रान्तान्निर्गतेन भारविणाकृता
१. S. K. De: Sanskrit Poetios Vol. 1, P, 262, 263.