________________
११
प्रस्तावना
अस्य तार्किकत्वं समीक्ष्य तर्कभाषाकृतः केशवमिश्रादयमभिन्नएवेति न साम्प्रतं कल्पयितुम् । १३४४-१४१९ ईशवीये वर्षे तर्कभाषाकर्तुः, अलङ्कारशेखरकारस्य च षोडशशताब्द्या उत्तरार्धे सत्ता परस्परमुभयोर्भिन्नतां व्यक्तमेवावगमयति । एतावदेव ग्रन्थकर्तुर्विषये -मीमांसितुं पार्यते । कस्तावदस्य पिता भ्राता सुतो गुरुः शिष्यश्चेति किमपि न ज्ञायते ।
'अलङ्कार सर्वस्वं काव्यरत्नं' चेति ग्रन्थद्वयं स्वको कृतित्वेन नि. रक्षित्केशवमिश्रः । कदाचिदिदं तत्प्रणीत सप्तग्रन्थान्तर्गतमेव स्यादिति कल्प्यते, न निश्चीयते परं तयोर्ग्रन्थयोरनुपलम्भात् । इत्थंच केशवमिश्र निर्मितेषु ग्रन्थेषु अलङ्कारसर्वस्वं काव्यरत्नं चेति द्वयो नाम्नैवोपलभ्यते । अलङ्कारशेखरश्चायं नयनगोचरीभवत्येव । अन्ये तु ग्रन्था वस्तुतो नामतोऽपि नोपलन्धुं शक्यन्ते । केशवमिश्रेण किल 'आत्मना ग्रथितानि सप्त काव्यग्रन्थरत्नानि तर्ककर्कशबुद्धिभिरेवाssकलयितुं शक्यन्त' इति पर्यालोचयता कामिनीचरणशोभमानमञ्जुमञ्जीरशिञ्जितसुन्दरोऽयं प्रबन्धः प्रणीतेः ।
अत्र च श्रीपादनामधेयं बहुवारमुल्लिखितं दृश्यते । शौद्धोदने रंघादरबोधकोऽयं सङ्केतः स्यात्किमु ? अन्येष्वलङ्कारग्रन्थेषु प्रायो नास्य नामोपलभ्यते । राजशेखरभोजमहिमभट्टमम्मटभट्टादीनां ग्रन्थेभ्यो वाक्यान्युद्धृत्य यथाप्रसङ्गं ग्रन्थेऽस्मिन् सन्निवेशितानि व्याख्याकारेण । किञ्चात्र १८ पृष्ठे 'पत्रं श्रीजयदेव पण्डितक विस्तन्मूर्ध्नि विन्यस्यति' इत्यसमर्थसमासोदाहरणपद्ये जयदेवः पण्डितकवित्वेन निरदिश्यत । गीतगोविन्देऽपि 'जयदेवपण्डितकवेः' इत्युपलभ्यते । अतो बहुधा १ ग्रन्थाः काव्यकृतां हिताय विहिता ये सप्त पूर्व मया ते तर्कार्णव संप्लवव्यसनिभिः शक्याः परं वेदितुम् । इत्यालोच्य हृदा मदालसवधू पादारविन्दक्वणन्मञ्जीरध्वनिमञ्जुलोऽयमधुना प्रस्तूयते प्रक्रमः ॥ २ तथाचेदं पद्यम् (सर्ग १२ श्लो० १०) -
गान्धर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गारविवेकतत्वरचनाकाव्येषु लीलायितम् । तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥