________________
१०
प्रस्तावना
भाग्यशाली सकलगुणसम्पन्नो माणिक्यचन्द्रो जनुर्लब्धवान् । यः किल काव्यालङ्कारशास्त्रविन्मूर्धन्यः पार्थिव सार्वभौमः सर्वेषां काव्ये बुद्धिनैपुण्यमुत्पादयितुं वेदान्तन्यायतत्त्वज्ञं केशवं नियुज्य अलङ्कारशेखराख्यं ग्रन्थममुं निर्मितवान् । ११६० मिते खीस्टवत्सरे सङ्केताख्यां 'काव्यप्रकाश' टीकां रचयितुर्माणिक्यचन्द्रादयं १५६३ मिते ईशवीये a 'siastes मधिरूढो माणिक्यचन्द्रो भिन्न इति तावदुभयोः समयनिरीक्षणतः स्फुटमेव प्रतीयते ।
- प्रकृत प्रबन्धप्रणेता केशवमिश्रो हि जन्मना कतमं देशमलङ्कृतवान् किजातीयश्चेति यथावन्नावगन्तुं शक्यते । सम्भाव्यते परं, यदसौ उत्तर देशवासी मैथिलः स्यादिति । अस्य वेदान्तेषु न्याये च परमं प्रावीण्यमासीदिति ग्रन्थारम्भे 'वेदान्तन्यायविद्यापरिचयचतुरं केशवं सन्नियुज्ये 'ति लेखतः प्रतीयते । तर्कविषयोन्मिश्रकाव्यग्रन्थनिर्माण कौशलमेवामुष्य काव्यन्यायविद्यानैपुण्ये प्रमाणमुपलभ्यते । अपिच काव्यशास्त्रीयामेतदीयां योग्यतामलङ्कारशेखर एव तावत्प्रकाशयति । स्वस्मात्पूर्वभाविनामाचार्याणां मतमनेन साधु विदितमासीदित्यस्य लेखतः सम्यगवगम्यते ।
स्वातन्त्र्येण समयस्तु नैतस्य निर्णेतुं शक्यः, आश्रयदातुः समय एव समयमेतदीयं निर्णाययति । माणिक्य चन्द्र प्रेरणया केशवमिश्रो निबन्धमेनं निबबन्धेति माणिक्यचन्द्रसमये केशवमिश्रस्य सत्ता निश्चितैव । माणिक्यचन्दस्य राज्यारोहणकालस्तु १५६३ मितः खीस्टाब्दः । अतस्तदाश्रितस्य केशवमिश्रस्यापि समयस्तत्कृतग्रन्थनिर्माणकालश्च षोडशशताब्द्या उत्तरार्धस्तृतीयभागो वा निःसंशयं निश्चेतुं शक्यते । १ प्रत्यर्थिभूपतिपरिग्रहराज्यलक्ष्मीधम्मिल्लमाल्य सुरभी कृतपाणिपद्मः । तस्मादजायत समस्तगुणाभिरामो माणिक्यचन्द्र इति राजकचक्रशक्रः ॥ २ काव्यालङ्कारपारङ्गममतिरखिलक्ष्माभृतां चक्रवर्ती सर्वेषामस्तु काव्ये मतिरतिनिपुणेत्याशये सन्निवेश्य । वेदान्तन्यायविद्या परिचयचतुरं केशवं सन्नियुज्य श्रीमन्माणिक्यचन्द्रः क्षितिपतितिलको ग्रन्थमेनं विधत्ते ॥ ३ S. K. Do: Sanskrit Poetics Vol. 1, P.261,