________________
॥२/१/१/१॥
|| श्रीआचाराङ्ग
सकृद्- एकवारं 'भज्जियं' ति आमर्दितं किञ्चिदग्निना किञ्चिदपरशस्त्रेण- प्रासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् ।
___ एतद्विपरीतं ग्राह्यमित्याह - ‘से भिक्खुत्ति व्याख्या पूर्ववत्, नवरं यदसकृद्- अनेकशोऽग्न्यादिना पक्वमामर्दितं दुष्पक्वादिदोषरहितं 88 प्रासुकं मन्यमानो लाभे सति गृह्णीयात् ।। ३ ।।
साम्प्रतं गृहपतिकुलप्रवेशविधिमाह-'
से भिक्खू वा २ गाहावतिकुलं जाव पविसित्तुकामे णो अण्णउत्थिएण वा गारत्थिएण वा परिहारिओ अपरिहारिएण सद्धिं गाहावतिकुलं पिंडवायपडियाए पविसेज्ज वा णिक्खमेज्ज वा।
से भिक्खू वा २ बहिया वियारभूमिं वा विहारभूमि वा णिक्खममाणे वा पविसमाणे वा णो अण्णउत्थिएण वा गारथिएण वा परिहारिओ अपरिहारिएण सद्धिं बहिया वियारभूमिं वा विहारभूमिं वा णिक्खमेज्ज वा पविसेज्ज वा।
से भिक्खू वा २ गामाणुगामं दूइज्जमाणे णो अण्णउत्थिएण वा जाव गामाणुगामं दूइज्जेज्जा ॥ (सू.४)
स भिक्षुर्गृहपतिकुलं प्रवेष्टुकाम एभिर्वक्ष्यमाणैः सार्धं न प्रविशेत्, प्राक्प्रविष्टो वा न निष्क्रामेत्', यैः सह न प्रवेष्टव्यं तान् स्वनामग्राहमाह -- तत्रान्यतीर्थिकाः- सरजस्कादयः, गृहस्थाः- पिण्डोपजीविनो धिग्जातिप्रभृतयः- तैः सह प्रविशताममी दोषाः- तद्यथा ते पृष्ठतो वा 88 गच्छेयुरग्रतो वा, तत्राग्रतो गच्छन्तो यदि साध्वनुवृत्त्या गच्छेयुस्ततस्तत्कृत ईर्याप्रत्ययः कर्मबन्धः प्रवचनलाधवं च, तेषां वा 838 १४१ प्रवेशे वि- हे. । मु. । २ वा नातिक्रा-पा.।
॥ ७॥