Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ श्रीआचारा प्रदीपिका ॥
केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमर्पोषध्यादिप्राप्तर्धीनां यदभिगमनं, गत्वा च दर्शनं, गुणोत्कीर्त्तनं, पूजनं-सुगन्धपुष्पादिभिः, स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनया भाव्यमानया दर्शनशुद्धिर्भवति ॥१॥
॥ २/३/१॥ जम्माभिसेय निक्खमणचरणनाणुप्पया य निव्वाणे । दियलोअभवणमंदरनंदीसरभोमनगरेसुं ॥२॥ अट्ठावयमुज्जिंते गयग्गपयए य धम्मचक्के य । पासरहारवत्तनगं चमरुप्पायं च वंदामि॥३॥ [ आ.नि ३३१/३३२]
तीर्थकृज्जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु देवलोकभवनेषु मन्दरेषु नन्दीश्वरद्वीपादौ भौमेषु पातालभवनेषु 8 यानि शाश्वतानि चैत्यानि तानि वन्देऽहम् ॥ २॥
एवमष्टापदे, श्रीमदुज्जयन्तगिरौ, गजाग्रपदे-दशार्णकूटवर्तिनि, धर्मचक्रे तक्षशिलायां, अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं, यत्र च श्रीवर्धमानमाश्रित्य चमरेणोत्पतनं कृतं, एतेषु स्थानेषु ६.४ यथासम्भवमभिगमनवन्दनपूजनगुणोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवति ॥ ३ ॥
गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । इय एगंतमुवगया गुणपच्चइया इमे अत्था ॥ ४॥ गुणमाहप्पं इसिनामकित्तणं सुरनरिंदपूया य। पोराणचेइयाणि य इय एसा दंसणे होइ॥५॥[आ.नि. ३३३/३३४] प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, गणितविषये-बीजगणितादौ परं पारमुपगतोऽयं, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयं, 20 ॥२२६ ।।

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300