Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 289
________________ श्रीमान प्रदीपिका ॥ ॥ २/३/१/॥ TR द्वितीयभावनायां तु मनसा दुष्प्रणिहितेन नो भाव्यं, तद्दर्शयति-यन्मनः पापकं-सावा सक्रियम् 'अण्हयकर'त्ति-कर्माश्रवकारि, तथा छेदनभेदनकरमधिकरणकरं कलहकरं प्रकृष्टदोषं प्रदोषिकं प्राणिनां परितापकारीत्यादि न विधेयमिति २। अथापरा तृतीया भावना-दुष्प्रसक्ता या वाक् प्राणिनामपकारिणी सा नाभिधातव्या ३ । चतुर्थी भावना-आदानभाण्डमात्रनिक्षेपणासमितिः, तत्र निर्ग्रन्थेन साधुना समितेन भवितव्यमिति ४ । अथापरा पञ्चमी भावना-आलोकितं-प्रत्युपेक्षितमशनादि भोक्तव्यं, तदकरणे दोषसम्भवात् ५। इत्येवं पञ्चभिर्भावनाभिः प्रथमं व्रतं स्पर्शितं पालितं तीर्ण कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति ॥७॥ द्वितीयव्रतभावनामाह-तत्र प्रथमेयं भावना-अनुविचिन्त्य भाषिणा भवितव्यं, तदकरणे दोषसम्भवात् १ । द्वितीयभावनायां तु क्रोधः सदा परित्याज्यो, यतः क्रोधान्धो मिथ्याऽपि भाषते २ । तृतीय भावनायां लोभजयः कर्त्तव्यः, तस्यापि मृषावादहेतुत्वादिति ३ । चतुर्थभावनायां भयं परित्याज्यमस्यापि मृषावादहेतुत्वात् ४ । पञ्चमभावनायां हास्यं त्याज्यम् ५ । ॥ २४९ ॥

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300