Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
॥२/३/१/॥
चतुर्थचूडाध्ययनस्य पञ्चार्थाधिकारानाह-अनित्यत्वाधिकारः १, पर्वताधिकारः २, रूप्याधिकारः ३, भुजगत्वगधिकारः ४, समुद्राधिकारश्च ५, इति पञ्चाधिकाराः। अथ सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् -
__ अणिच्चमावासमुवेंति जंतुणो, पलोयए सोच्चमिदं अणुत्तरं ।
विओसिरे विण्णु अगारबंधणं, अभीरु आरंभपरिग्गहं चए॥१३५ ॥ आवसन्त्यस्मिन्नित्यावासो-मनुष्यादिभवस्तमनित्यमुप-सामीप्येन यन्ति'-गच्छन्ति जन्तवः-प्राणिनः, चतसृष्वपि गतिषु यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्ति, एतच्च प्रवचनं मौनीन्द्रमनुत्तरं श्रुत्वा प्रलोकयेत् - पर्यालोचयेद्, यद्यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तत्तथैव दृश्यते इत्यर्थः, एतच्च श्रुत्वा प्रलोक्य च विद्वान व्युत्सृजेत् - परित्यजेत् अगारबन्धनंपुत्रकलत्रधनधान्यादिरूपं, किम्भूतः सन् ? अभीरु-सप्तप्रकारभयरहितः आरम्भं-सावद्यमनुष्ठानं परिग्रहरू च सबाह्याभ्यन्तरं त्यजेत् ॥ १३५॥ अथ पर्वताधिकारमाह
तहागयं भिक्खुमणंत संजतं, अणोलिसं विण्णु चरंतमेसणं ।
॥ २५२॥
१- यान्ति - बृ।

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300