Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
एवं पञ्चभिर्भावनाभिर्द्वितीयं व्रतमाज्ञयाऽऽराधितं भवति ॥ २ ॥
तृतीय प्रथमा भावनैषा - अनुविचिन्त्य शुद्धोऽवग्रहो याचनीयः १ । द्वितीयभावनायामाचार्यादीननुज्ञाप्य भोजनादिकं विधेयम् २ | तृतीयभावनायां त्ववग्रहं गृह्णता निर्ग्रन्थेन परिमित एवावग्रहो ग्राह्यः ३ । चतुर्थभावनायां त्वभीक्ष्णमनवरतमवग्रहपरिमाणं विधेयम् ४ । पञ्चम्यां त्वनुविचिन्त्य मितमवग्रहं साधर्मिकससम्बन्धिनं गृह्णीयात् ५ । इत्येवमाज्ञया तृतीयव्रतमाराधितं भवतीति ॥ ३ ॥
[ चतुर्थव्रते ] प्रथमभावनायां स्त्रीणां सम्बन्धिनीं कथां न कुर्यात् १ । द्वितीयभावनायां तदिन्द्रियाणि मनोहारीणि नावलोकयेत् २ । तृतीयभावनायां पूर्वक्रीडनादि न स्मरेत् ३ । चतुर्थ्यां नातिमात्रभोजनपानासेवी स्यात् ॥ ४ ॥
11 2/3/2/11
।। २५० ।।

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300