SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ एवं पञ्चभिर्भावनाभिर्द्वितीयं व्रतमाज्ञयाऽऽराधितं भवति ॥ २ ॥ तृतीय प्रथमा भावनैषा - अनुविचिन्त्य शुद्धोऽवग्रहो याचनीयः १ । द्वितीयभावनायामाचार्यादीननुज्ञाप्य भोजनादिकं विधेयम् २ | तृतीयभावनायां त्ववग्रहं गृह्णता निर्ग्रन्थेन परिमित एवावग्रहो ग्राह्यः ३ । चतुर्थभावनायां त्वभीक्ष्णमनवरतमवग्रहपरिमाणं विधेयम् ४ । पञ्चम्यां त्वनुविचिन्त्य मितमवग्रहं साधर्मिकससम्बन्धिनं गृह्णीयात् ५ । इत्येवमाज्ञया तृतीयव्रतमाराधितं भवतीति ॥ ३ ॥ [ चतुर्थव्रते ] प्रथमभावनायां स्त्रीणां सम्बन्धिनीं कथां न कुर्यात् १ । द्वितीयभावनायां तदिन्द्रियाणि मनोहारीणि नावलोकयेत् २ । तृतीयभावनायां पूर्वक्रीडनादि न स्मरेत् ३ । चतुर्थ्यां नातिमात्रभोजनपानासेवी स्यात् ॥ ४ ॥ 11 2/3/2/11 ।। २५० ।।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy