________________
श्रीमान प्रदीपिका ॥
॥ २/३/१/॥
TR द्वितीयभावनायां तु मनसा दुष्प्रणिहितेन नो भाव्यं, तद्दर्शयति-यन्मनः पापकं-सावा सक्रियम् 'अण्हयकर'त्ति-कर्माश्रवकारि, तथा छेदनभेदनकरमधिकरणकरं कलहकरं प्रकृष्टदोषं प्रदोषिकं प्राणिनां परितापकारीत्यादि न विधेयमिति २।
अथापरा तृतीया भावना-दुष्प्रसक्ता या वाक् प्राणिनामपकारिणी सा नाभिधातव्या ३ । चतुर्थी भावना-आदानभाण्डमात्रनिक्षेपणासमितिः, तत्र निर्ग्रन्थेन साधुना समितेन भवितव्यमिति ४ । अथापरा पञ्चमी भावना-आलोकितं-प्रत्युपेक्षितमशनादि भोक्तव्यं, तदकरणे दोषसम्भवात् ५। इत्येवं पञ्चभिर्भावनाभिः प्रथमं व्रतं स्पर्शितं पालितं तीर्ण कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति ॥७॥ द्वितीयव्रतभावनामाह-तत्र प्रथमेयं भावना-अनुविचिन्त्य भाषिणा भवितव्यं, तदकरणे दोषसम्भवात् १ । द्वितीयभावनायां तु क्रोधः सदा परित्याज्यो, यतः क्रोधान्धो मिथ्याऽपि भाषते २ । तृतीय भावनायां लोभजयः कर्त्तव्यः, तस्यापि मृषावादहेतुत्वादिति ३ । चतुर्थभावनायां भयं परित्याज्यमस्यापि मृषावादहेतुत्वात् ४ । पञ्चमभावनायां हास्यं त्याज्यम् ५ ।
॥ २४९ ॥