Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
॥ तत्समाप्तौ च परिसमाप्तं प्रथमं श्री आचाराङ्गमिति ॥ ( प्रशस्तिः ) ( अनुष्टुब् )
श्रीवीरशासने क्लेशनाशने जयिनि क्षितौ ॥ सुधर्मस्वाम्यपत्यानि गणाः सन्ति सहस्त्रशः ॥ १ ॥ गच्छः खाग (खर ) [ तर ] स्तेषु समस्ति स्वस्तिभाजनं । यत्राऽभूवन् गुणजुषो गुरवो गतकल्मषाः ॥ २ ॥ श्रीमानुद्योतेनः सूरिर्वर्द्धमानो जिनेश्वरः । जिनचन्द्रोऽभयदेवो नवाङ्गीवृत्तिकारकः ॥ ३ ॥ ग्रथितानेकसद्ग्रन्थो निर्गन्थानां शिरोमणिः । दुर्लभो दुर्धियां धीमद्वल्लभो जिनवल्लभः ॥ ४ ॥
( आर्या )
जिनदत्तो जिन ( प ? ) चन्द्रो जिनपतिरासीज्जिनेश्वरस्यैव (श्चैव )
स जिनप्रबोध - जिनचन्द्रसुगुरुजिनकुशल- जिनपद्याः ॥ ५ ॥
जिनलब्धिर्जिनचन्द्रः सङ्घोदयकृज्जिनोदयगणेशः । जिनराजसूरिगणभूत्तत्पट्टालकृतिप्रवणः ।। ६ ।।
१ प्रशस्तिरियं हे मध्येऽस्ति, मु-पा मध्ये नास्ति ।
॥२/३/१/ ॥
।। २५८ ।।

Page Navigation
1 ... 296 297 298 299 300