Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 295
________________ ।। श्रीआचाराङ्ग प्रदीपिका ॥ । २/३/१/॥ मूलगुणानन्तरमुत्तरगुणानाह सितेहिं भिक्खू असिते परिव्वए, असज्जमित्थीसु चएज्ज पूयणं । अणिस्सिए लोगमिणं तहा परं, ण मिज्जते कामगुणेहिं पंडिते ।। १४१॥ सिताः-बद्धाः कर्मणा गृहपाशेन रागद्वेषादिबन्धनेन वा ते गृहस्था अन्यतीर्थिका वा तैः असितः न बद्धः तैः सार्धं सङ्गमकुर्वन् भिक्षुः परिव्रजेत्-संयमानुष्ठायी भवेत्, स्त्रीषु असजन्-सङ्गमकुर्वन् पूजनं (त्यजेत्) सत्काराभिलाषी न भवेत्, ‘अणिस्सिए'त्ति अनिश्रितः - असंबद्धः इहलोके-अस्मिन् जन्मनि, परलोके-स्वर्गादौ, एवंभूतश्च कामगुणैः- मनोज्ञशब्दादिभिः न मीयते न तोल्यते न स्वीक्रियते पण्डितः-कटुविपाककामगुणदर्शी ।। १४१ ।। तहा विमुक्कस्स परिणचारिणो, धितीमतो दुक्खखमस्स भिक्खुणो। विसुज्झती जंसि मलं पुरेकडं, समीरियं रूप्पमलं व जोतिणा ।। १४२ ॥ तथा-तेन प्रकारेण मूलोत्तरगुणधारित्वेन विमुक्तो-निसङ्गस्तस्य, परिज्ञान-परिज्ञा-सदसद्विवेकस्तया चरितुं शीलमस्येति परिज्ञाचारी4 ज्ञानपूर्व क्रियाकारी तस्य, धृतिः-समाधानं संयमे यस्य स धृतिमांस्तस्य, दुःखम्-असातावेदनीयोदयस्तदुदीर्णं सम्यक् क्षमते, न 4.0 वैक्लव्यमुपयाति नापि तदुपशमार्थं वैद्यौषधादि मृगयते, तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म विशुध्यति-अपगच्छति, किमिव ? - समीरितं-प्रेरितं रूप्यमलमिव ज्योतिषा-अग्निना ।। १४२ ॥ ॥ २५५॥ ११ दिनिबन्धनेन वेति-बृ। २ अनिसृतः-पा। ३ पूर्व-पा।

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300