Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 294
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ ॥ २/३/१/॥ उपेक्षमाणः -परीषहोपसर्गान् सहमान इष्टानिष्टविषये वा माध्यस्थ्यमवलम्बमानः कुशलैः-गीतार्थैः सह संवसेत्, कथम् ? अकान्तम्अनभिप्रेतं दुःखम् - असातावेदनीयं तद्विधत्ते येषां त्रसस्थावराणां तान् दुःखिनस्त्रसस्थावरान् अलूषयन् - अपरितापयन् पिहिताश्रवद्वारः४। पृथ्वीवत् सर्वंसहः- परीषहोपसर्गसहिष्णुः महामुनिः-सम्यग्जगत्त्रयस्वभाववेत्ता तथा ह्यसौ सुश्रमणः समाख्यातः ।। १३८ ॥ विदू णते धम्मपयं अणुत्तरं, विणीततण्हस्स मुणिस्स झायतो । समाहियस्सऽग्गिसिहा व तेयसा, तवो य पण्णा य जसो र य वड्ढति ।। १३९॥ विद्वान् - कालज्ञस्ततो नतः-प्रणतः किं ? धर्मपदं-क्षान्त्यादिकं, किम्भूतम् ? अनुत्तरं-प्रधानं, तस्य चैवंभूतस्य मुनेविंगततृष्णस्यम ध्यायतो धर्मध्यानं समाहितस्य-उपयुक्तस्याग्निशिखावत्तेजसा ज्वलतस्तपः प्रज्ञा यशश्च वर्धते ।।१३९|| दिसोदिसिंऽणंतजिणेण ताइणा, महव्वता खेमपदा पवेदिता । महागुरू निस्सयरा उदीरिता, तमं व तेऊ तिदिसं पगासगा ॥१४०॥ दिशोदिशं-सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु क्षेमपदानि-रक्षणस्थानानि प्रवेदितानि-प्ररूपितानि, अनन्तश्चासौ ज्ञानात्मतया नित्यतया ) [ वा ] जिनश्च-रागद्वेषजयनादनन्तजिनस्तेन, किंभूतानि व्रतानि ? - महागुरूणि-कापुरुषैर्दुर्वहत्वात् निःस्वकराणि स्वं-88 कर्मानादिसंबंधात्तदपनयनसमर्थानि निःस्वकराणि उदीरितानि-आविष्कृतानि तेज' इव तमोऽपनयनात् त्रिदिशं प्रकाशकानि, यथा । तेजस्तमोपनीयोर्ध्वाधस्तिर्यक् प्रकाशते, एवं तान्यपि कर्मतमोऽपनयनहेतुत्वात्त्रिदिशं प्रकाशकानि ॥ १४० ॥ १ उपेक्ष्यमाणः-पा।२ धत्वात्तद-पा। ३ तेजस-बृ। ॥ २५४॥

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300