SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ ॥२/३/१/॥ चतुर्थचूडाध्ययनस्य पञ्चार्थाधिकारानाह-अनित्यत्वाधिकारः १, पर्वताधिकारः २, रूप्याधिकारः ३, भुजगत्वगधिकारः ४, समुद्राधिकारश्च ५, इति पञ्चाधिकाराः। अथ सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् - __ अणिच्चमावासमुवेंति जंतुणो, पलोयए सोच्चमिदं अणुत्तरं । विओसिरे विण्णु अगारबंधणं, अभीरु आरंभपरिग्गहं चए॥१३५ ॥ आवसन्त्यस्मिन्नित्यावासो-मनुष्यादिभवस्तमनित्यमुप-सामीप्येन यन्ति'-गच्छन्ति जन्तवः-प्राणिनः, चतसृष्वपि गतिषु यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्ति, एतच्च प्रवचनं मौनीन्द्रमनुत्तरं श्रुत्वा प्रलोकयेत् - पर्यालोचयेद्, यद्यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तत्तथैव दृश्यते इत्यर्थः, एतच्च श्रुत्वा प्रलोक्य च विद्वान व्युत्सृजेत् - परित्यजेत् अगारबन्धनंपुत्रकलत्रधनधान्यादिरूपं, किम्भूतः सन् ? अभीरु-सप्तप्रकारभयरहितः आरम्भं-सावद्यमनुष्ठानं परिग्रहरू च सबाह्याभ्यन्तरं त्यजेत् ॥ १३५॥ अथ पर्वताधिकारमाह तहागयं भिक्खुमणंत संजतं, अणोलिसं विण्णु चरंतमेसणं । ॥ २५२॥ १- यान्ति - बृ।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy