SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ || श्रीआचाराङ्ग प्रदीपिका ॥ तुदंति वायाहिं अभिद्दवं णरा, सरेहिं संगामगयं व कुंजरं ।। १३६ ।। तथागतं तथाभूतमनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रहं भिक्षं साधुमनन्तेष्वेकेन्द्रियादिषु सम्यग् यतः संयत, अनीदृशम् अनन्यसदृशं विण्णु'त्ति विद्वांसं - जिनागमगृहीतसारम् एषणां चरन्तं परिशुद्धाहारादिना वर्त्तमानं, तमित्थंभूतं भिक्षं नराःमिथ्यादृष्टयः पापोपहतात्मानः वाग्भिः असभ्यालापैः तुदन्ति पीडामुत्पादयन्ति तथा लोष्टुप्रहारादिभिरभिद्रवन्ति, कथं ? शरैः सङ्ग्रामगतं कुञ्जरमिव ॥ १३६ ॥ तहप्पगारेहिं जणेहिं हीलिते ससद्दफासा फरुसा उदीरिया । तितिक्खए णाणि अदुठ्ठचेतसा, गिरि व्व वातेण ण संपवेवए ।। १३७ ॥ तथाप्रकारैः - अनार्यप्रायैर्जनैः हीलितः - कदर्थितः, कथं ? यतस्तैः परुषास्तीब्राः सशब्दाः - साक्रोशाः स्पर्शाः शीतोष्णादिका दुःखोत्पादका उत् - प्राबल्येनेरिता-जनिताः कृताः, तांश्च स मुनिरेवं हीलितोऽपि तितिक्षते सम्यक् सहते, यतोऽसौ ज्ञानी पूर्वकृतकर्मण एव विपाकानुभव इत्येवं मन्यमानः, अदुष्टचेताः - अकलुषितान्तःकरणः सन् न तैः संप्रवेपते-न कम्पते गिरिरिव वातेन ।। १३७ ।। अधुना रूप्यदृष्टान्तमाह १ एषणायाम् पा उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खा तस थावरा दुही। अलूसए सव्वसहे महामुणी, तहा हु से सुस्समणे समाहिते ।। १३८ ।। 11 3/3/8/11 ।। २५३ ।।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy