SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचारा प्रदीपिका ॥ केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमर्पोषध्यादिप्राप्तर्धीनां यदभिगमनं, गत्वा च दर्शनं, गुणोत्कीर्त्तनं, पूजनं-सुगन्धपुष्पादिभिः, स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनया भाव्यमानया दर्शनशुद्धिर्भवति ॥१॥ ॥ २/३/१॥ जम्माभिसेय निक्खमणचरणनाणुप्पया य निव्वाणे । दियलोअभवणमंदरनंदीसरभोमनगरेसुं ॥२॥ अट्ठावयमुज्जिंते गयग्गपयए य धम्मचक्के य । पासरहारवत्तनगं चमरुप्पायं च वंदामि॥३॥ [ आ.नि ३३१/३३२] तीर्थकृज्जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु देवलोकभवनेषु मन्दरेषु नन्दीश्वरद्वीपादौ भौमेषु पातालभवनेषु 8 यानि शाश्वतानि चैत्यानि तानि वन्देऽहम् ॥ २॥ एवमष्टापदे, श्रीमदुज्जयन्तगिरौ, गजाग्रपदे-दशार्णकूटवर्तिनि, धर्मचक्रे तक्षशिलायां, अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं, यत्र च श्रीवर्धमानमाश्रित्य चमरेणोत्पतनं कृतं, एतेषु स्थानेषु ६.४ यथासम्भवमभिगमनवन्दनपूजनगुणोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवति ॥ ३ ॥ गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । इय एगंतमुवगया गुणपच्चइया इमे अत्था ॥ ४॥ गुणमाहप्पं इसिनामकित्तणं सुरनरिंदपूया य। पोराणचेइयाणि य इय एसा दंसणे होइ॥५॥[आ.नि. ३३३/३३४] प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, गणितविषये-बीजगणितादौ परं पारमुपगतोऽयं, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयं, 20 ॥२२६ ।।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy