________________
॥ श्रीआचाराङ्ग
प्रदीपिका ॥
॥ श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिहालङ्कार-श्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकायां द्वितीये श्रुतस्कन्धे श्रीसप्तसप्तैककाध्ययनात्मिका) द्वितीया चूडा समाप्ता ॥
॥ अथ भावनाख्या तृतीया चूलिका ॥
॥ पण्णरसमं अज्झयणं 'भावणा' ॥
उक्ता द्वितीया चूडा, अथ तृतीया समारभ्यते, अस्याश्चायमभिसम्बन्धः - इहादितः प्रभृते येन श्रीवर्धमानस्वामिनेदमर्थतोऽभिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं तथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थं भावनाः प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडा, अस्याश्चडाया भावनेति नाम, ततो भावनाविशेषानाह - भावना द्विविधा द्रव्यतो भावतश्च, द्रव्यतस्तिलादिषु सुगन्धिपुष्पचम्पकादीनां भावना, भावतो भावना द्विधा प्रशस्ताप्रशस्तभेदात्, तत्राप्रशस्ताः- प्राणातिपातादिरूपाः क्रोधादिरूपाश्च प्रशस्ता दर्शनज्ञानचारित्रतपोवैराग्यादिकाः ।
तत्र दर्शनभावनामाह नियुक्तिकारः
'तित्थगराण भगवओ पवयणपावयणिअइसइड्ढिणं अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा' ।। १ ।। [ आ.नि. ३३०]
तीर्थकृतां भगवतां, प्रवचनस्य द्वादशाङ्गस्य, प्रावचनिनाम्
आचार्यादीनाम्, अतिशयिनामृद्धिमता
१ अतिशायिनां पा ।
10
॥२/३/१ ॥
।। २२५ ।।