________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
॥२/१/४/१॥
स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽर्धश्रृण्वन्तं नैवं भाषेत, तद्यथा-होल इति वा गोल इति वा, एतौ च देशान्तरेऽवज्ञासंसूचकौ, 'वसुले'त्ति वृषलः कुपक्षः- कुत्सितान्वयः घटदास इति वा श्वेति वा स्तेन इति वा मृषावादीति वा, इत्येतानि-अनन्तरोक्तानि त्वमसि तव जनकौ वा-मातापितरावेतानीति, एवंप्रकारां भाषां यावन्न भाषेत ।
एतद्विपर्ययेण भाषितव्यमाह-स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽश्रृणवन्तमेवं ब्रूयाद् यथाऽमुक इति वा आयुष्मन्निति वा तथा श्रावकः! धर्मप्रिय ! इत्यादिकां भाषां भाषेत ।
एवं स्त्रियमधिकृत्य सूत्रद्वयमाह-'से भिक्खू' त्ति सुगमम् ।।१३४॥
से भिक्खू वा २ णो एवं वदेजा-णभंदेवे ति वा, गजदेवे ति वा, विजुदेवे ति वा, पवुट्ठदेवे ति वा, णिवुट्ठदेवे ति वा, 42 पडतु वा वासं मा वा पडतु, णिप्पजतु वा सासं मा वा णिप्पजतु, विभातु वा रयणी मा वा विभातु, उदेउ वा सूरिए मा वा 83 उदेउ, सो वा राया जयतु मा वा जयतु । णो एयप्पगारं भासं भासेजा पण्णवं ।
से भिक्खू वा २ अंतलिक्खे ति वा, गुज्झाणुचरिते ति वा, समुच्छिते वा, णिवइए वा पओए, वदेज वा वुट्ठबलाहगे 48 त्ति।
एयं खलु भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वटेहिं सहिएहि सया जएजासि त्ति बेमि ॥ (सू.१३५)
॥१५१॥