________________
॥२/१/१/४ ॥
।। श्रीआचाराङ्ग प्रदीपिका॥
से भिक्खू वा २ से ज्जाइं पुणो कुलाई जाणेज्जा, तं जहा- खत्तियाण वा राईण वा कुराईण वा रायपेसियाण वा म रायवंसट्ठियाण वा अंतो वा बहिं वा गच्छंताण वा संणिविट्ठाण वा णिमंतेमाणाण वा अणिमंतेमाणाण वा असणं वा ४ लाभे संते णो पडिगाहेज्जा ॥ (सू.२१)
॥श्रीपिण्डैषणाध्ययनस्य तृतीय उद्देशकः समाप्तः॥ स भिक्षुर्यानि पुनरेम्भूतानि कुलानि जानीयात्, तद्यथा-क्षत्रियाः- चक्रवर्तिवासुदेवबलदेवप्रभृतयस्तेषां कुलानि, राजानः4- क्षत्रियेभ्योऽन्ये, कुराजानः- प्रत्यन्तराजानः, राजप्रेष्याः- दण्डपाशिकप्रभृतयः, राजवंशे स्थिता-राज्ञो मातुलभागिनेयादयः, एतेषां कुलेषु 4)
सम्पातभयान्न प्रवेष्टव्यं, तेषां च गृहान्तर्बहिर्वा स्थितानां गच्छता-पथि वहतां संनिविष्टानां-आवासितानां निमन्त्रयतामनिमन्त्रयतां वाऽशनादि लाभे सति न गृह्णीयात् ।। २१ ॥ | ॥ श्रीपिण्डैषणाध्ययनस्य तृतीयोद्देशकप्रदीपिका समाप्ता ।।
48 ॥श्रीपिण्डैषणाध्ययने चतुर्थोद्देशकः॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके सङ्खडिगतो विधिरभिहित, इहापि TR म तच्छेषविधिप्रतिपादनार्थमाह -
से भिक्खू वा २ जाव पविढे जाव समाणे से ज्जं पुण जाणेज्जा, मंसादियं वा मच्छादियं वा मंसखलं वा मच्छखलं वा
18
॥ २७॥