________________
॥ श्रीआचाराङ्ग प्रदीपिका ||
भिक्खू वा २ व समाणे से ज्जं पुण पाणगजातं जाणेज्जा, तं जहा तिलोदगं वा ४ तुसोदगं वा ५ जवोदगं वा ६ आयामं वा ७ सोवीरं वा ८ सुद्धवियर्ड वा ९, अण्णतरं वा तहप्पगारं पाणगजातं पुव्वामेव आलोएजा आउसो तिवा भगिणि त्ति वा दाहिसि मे एत्तो अण्णतरं पाणगजातं ? से सेवं वदंतं परो वदेज्जा आउसंतो समणा ! तुमं चेवेदं पाणगजातं पडिग्गहेण वा उस्सिंचियाणं ओयत्तियाणं गिण्हाहि । तहप्पगारं पाणगजातं सयं वा गेण्हेज्जा, परो वा से देज्जा, फासूयं लाभे संते पड़िगाहेज्जा ।। (सू. ४१ ) ।।
स भिक्षुर्गृहपतिकुलं पानकार्थं प्रविष्टः सन् यत्पुनरेवं जानीयात्, तद्यथा- 'उस्सेइमं' पिष्टोत्स्वेदनार्थमुदकं १ 'संसेइमं' तिलधावनोदकं, २ यदिवाऽरणिकादिसंस्विन्नप्रधावनोदकं २, तत्र प्रथमद्दितीयोदके प्रासुके एव, तृतीयचतुर्थे तु मिश्र, कालान्तरेण परिणते भवतः, 'चाउलोदगं' ति तन्दुलधावनोदकम् ३, अत्र च त्रयोऽनादेशाः, तद्यथा बुद्बुदापगमो वा १, भाजनलनबिन्दुशोषो वा २, तन्दुलपोको वा ३, आदेशस्त्वयम् उदकस्वच्छीभावः, तदेवमाद्युदकम् अनाम्लं सस्वादादचलितमव्युत्क्रान्तमपरिणतमविध्वस्तमप्रासुकं यावन्न प्रतिगृह्णीयात् । एतद्विपरीतं तु ग्राह्यम्, 'अहे' त्यादि सुगमम् ।
59e9
पुनः पानकाधिकार एव विशेषार्थमाह-स भिक्षुर्गृहपतिकुलं प्रविष्टो यत्पुनः पानकजातमेवं जानीयात्, तद्यथा-तिलोदकं-तिलैः केनचित्प्रकारेण प्रासुकीकृतं ४, तुषैर्वा ५, यवैर्वा ६, तथा आचाम्लं - अवश्यानं ७, सौवीरम् आरनालं ८, शुद्धविकटं प्रासुकमुदकम् ९, अन्यद्वा तथाप्रकारं द्राक्षापानकादि पानकजातं - पानीयसामान्यं पूर्वमेवावलोकयेत् पश्येत्, तच्च द्रष्टवा तं गृहस्थममुक ! इति वा भगिनि ! इति वेत्यामन्त्र्यैवं ब्रूयाद्यथा दास्यसि मे किञ्चित्पानकजातं १ स परस्तं भिक्षुमेवं ब्रूयाद्-यथा आयुष्मन् ! त्वमेवेदं पानकजातं
॥२/१/१/७ ॥
॥ ५५ ॥