________________
। श्रीआचाराङ्ग प्रदीपिका ॥
॥ २/१/१/८॥ ( ॥श्रीपिण्डैषणाध्ययने अष्टमोद्देशकः॥ ) सप्तमोद्देशके पानकविचारः कृतः, अष्टमेऽपि तद्गतमेव विशेषमाह
से भिक्खू वा २ जाव समाणे से ज्जं पुण पाणगजातं जाणेजा, तं जहा-अंबपाणगं वा १० अंबाडगपाणगं वा ११४ कविट्ठपाणगं वा १२ मातुलुंगपाणगं वा १३ मुद्दियापाणगं वा १४ दालिमपाणगं वा १५ खजूरपाणगं वा १६ णालिएरपाणगं तु वा १७ करीरपाणगं वा १८ कोलपाणगं वा १९ आमलगपाणगं वा २० चिंचापाणगं वा २१ अण्णतरं वा तहप्पगारं पाणगजातं सअट्ठियं सकणुयं सबीयगं अस्संजए भिक्खुपडियाए छव्वेण वा दूसेण वा वालगेण वा आवीलियाण परिपीलियाण परिस्साइयाण आहटु दलएज्जा । तहप्पगारं पाणगजायं अफासुयं लाभे संते णो पडिगाहेज्जा ॥ (सू.४३)।
स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवम्भूतं पानकं जानीयात्, तद्यथा-'अंबपाणगं वे'त्यादि सुगम, नवरं 'मुद्दिया' द्राक्षा ४. कोलानि-बदराणि, एतेषु पानकेषु द्राक्षाबदराम्बिलिकादि-कतिचित्पानकानि तत्क्षणमेव संमद्य क्रियन्ते, अपराणि त्वाम्राटकादिपानकानि 8 द्वित्रादिदिनसन्धानेन विधीयन्त इत्येवम्भूतं पानकजातं तथाप्रकारमन्यदपि सास्थिकं सहास्थिना कुलकेन यद्वर्तते, तथा सह कणुकेन
त्वगाद्यवयवेन यद्वर्तते, सह बीजेन यद्वर्तते तत्सबीजं, तदेवम्भूतं पानकजातम् असंयतः-गृहस्थो भिक्षुमुद्दिश्य - साध्वर्थं द्राक्षादिकमामद्य 92 ४.४ पुनर्वंशत्वनिष्पादितच्छब्बकेन वा, तथा दूसं-वस्त्रं तेन वा, ‘वालगेण वा गवादिवालनिष्पन्नचालनकेन सुधरिकागृहकेन १.६ ॥५७॥