Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 13
________________ आचारसारे त्यक्त्वा दुञपमेक्ष्मापं पापं पापिजनाकुलम् । देशं दीक्षोन्मुखापेतं दुर्भिक्षं क्लेशदायकम् ॥ १९ ॥ निर्बाधसस्यवद्यत्र वर्द्धते गुणमण्डलम् । क्षेत्रसंश्रयणं तत्राऽऽवासश्चेतःसुखावहः ॥ २०॥ युग्मम् । आगन्तुकमुनेर्मार्गयानागमनजातयोः । यः सुखासुखयोः प्रश्नः सोऽयं स्यान्मार्गसंश्रयः ॥२१॥ चौरक्रूरगदोशिपीड़िताद्यर्तिवर्तिनाम् । तोषोत्कर्षणमाहारभेषजायतनादिभिः ॥ २२ ॥ स्वात्मार्पणमहं तुभ्यमस्मीति च सुखेऽसुखे। यत्तच्चित्तप्रसादार्थ तत्सुखासुखसंश्रयः ॥ २३ ॥ युग्मम् । पुरा स्वगुरुपादान्ते शास्त्रं श्रुत्वाऽखिलं पुनः। जिज्ञासायां स्वलोकान्यथा ग्रंथातिशये मुनिः ॥२४॥ भक्त्योपेत्य गुरुन्नत्वा युष्मत्पादप्रसादतः। अन्यन्मुनीन्द्रवृन्दं मे द्रष्टुं वाञ्छा प्रवर्तते ॥२५॥ इत्येवं बहुशः स्पृष्ट्वा लब्ध्वाऽनुज्ञां गुरोर्ब्रजेत् । वतिनैकेन वा द्वाभ्यां बहुभिः सह नान्यथा ॥२६॥त्रिकलम् । ज्ञानसंहननस्वांतभावनाबलवन्मुनेः। चिरप्रव्रजितस्यकविहारस्तु मतः श्रुते ॥२७॥ एतद्गुणगणापेतः स्वेच्छाचाररतः पुमान् । यस्तस्यैकाकिता मा भून्मम जातु रिपोरपि ॥२८॥ श्रुतसंतानविच्छित्तिरनवस्था यमक्षयः । आज्ञाभंगश्च दुःकीर्तिस्तीर्थस्य स्याद्गुरोरपि ॥ २९ ॥ अग्नितोयगराजीर्णसर्पकूरादिभिः क्षयः। स्वस्याप्यार्त्तादिकादेकविहारेऽनुचिते यतः॥ ३० ॥ युग्मम् । गत्वातः सूर्युपाध्यायवर्तकस्थविरान्वितम् । गणं गणधरोपेतमुपेयादीदृशाश्च ते ॥ ३१॥ १ मां भुवं न पीताति ' अक्ष्मापस्तम्' २ नृप ३ प्राप्नुयात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106