Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 15
________________ आचारसारे संचिंत्यति स्थितस्थानं तपः कालं गुरुं कुलम् । पृष्ट्वा श्रुतं श्रुतं नाम स्वं प्रतिक्रमणादिकम् ॥ ४६॥ शयनाशनयानादौ प्रेक्ष्य वृत्तं दिनत्रयम् । निश्चित्य गुरुश्चारित्रशुद्धिं तत्सूरिसम्मतः॥४७॥ स्वशक्तिमुक्त्वा व्याख्यादौ तद्व्याख्यातं पठेच्छुतम् । स्वस्येष्टं प्रश्रयादेतत्पठनं सूत्रसंश्रयः॥४८॥ त्रिकम् । सविस्तारसमाचारनैकभेदोऽत्र वर्ण्यते। उदाहरणमात्रेण विश्वं को वक्तुमीश्वरः॥४९॥ रात्रि दिवं यमिष्वार्ये यत्कर्माचर्यते वरम्। तद्विस्तारसमाचार इति येन जिनोदितः ॥५०॥ युग्मम् । क्रियाकलापमल्पाल्पसूत्राण्याचारवर्णनम्। पठेदथ पुराणानि त्रिकलो स्थितिकीर्तनम् ॥ ५१॥ सिद्धांतं तर्कमंगांगबाह्यादेशार्थदेशनम् । स्वीयशक्त्यनुसारेण भक्त्या मोक्षककांक्षया॥५२॥ युग्मम् । रुचिश्चार्वी चरित्राणां शरणं शरणं सताम् । महत्त्वसत्त्वगांभीर्यधैर्यादिगुणभूषणः ।। ५३ ।। चिरप्रव्रजितो दांतः प्रत्यक्तसमयस्थितिः । दयावात्सल्यसाकल्यः शांतोऽयं गणितोचितः ॥ ५४॥ इति सूर्यर्पिताचार्यपदः सन् संघसम्मतः । प्रायश्चित्तादिशास्त्राणि रहस्यानि पठेदथ ।। ५५ ॥ यः शिष्यत्वमकृत्वैव सूरितां कर्तुमीहते। सः स्यादुन्मार्गगस्तीक्ष्णो वाऽशिक्षिततुरंगमः ॥ ५६ ॥ सर्वसत्त्वगुणिक्लेशिनिर्गुणेषु करोत्वलम् । मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि यथाक्रमम् ॥ ५७ ॥ जिनान् सिद्धान् गणाधीशानुपाध्याञ्जगद्गुरून् । साधून धर्म जगच्छर्मकरं वन्देत नेतरान् ॥ ५८ ॥ १ इन्द्रियनिग्रहवान् २ । आचार्यत्वयोग्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106