Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 62
________________ अष्टमोऽधिकारः। ५७ पूति प्रासुकपात्रादि मिश्रमप्रासुकेन यत् । मिश्रसंगे हि पाखंडियतिभ्यो यद्वितीर्यते ॥ २५ ॥ स्वगृहेऽन्यगृहे वा यत् स्थापितं पाकभाजनात् । अन्यस्मिन् भाजनेऽन्नादि निक्षिप्य स्थापितं मतम् ॥ २६ ॥ यक्षादेवलिदानावशिष्टाहारो बलिर्मतः। संयतागमनार्थ वा करणं बलिकर्मणः ॥ २७ ॥ वेलादिवसमासर्तुवर्षादिनियमेन यत् । यतिभ्यो दीयमानान्नं प्राभृतं परिकीर्तितम् ॥ २८ ॥ गेहप्रकाशकरणं यत्याविष्कृतमीरितम् । संस्कारो भाजनादीनां वा स्थानान्तरधारणम् ॥ २९॥ विद्याद्रव्यादिभिः क्रीतं क्रीतं प्रामृष्यमिष्यते । स्तोकर्ण वृद्धयवृद्धिभ्यां यतिदानार्थमर्जितम् ॥ ३०॥ व्रीहिरादिभिः शालिकूरादेः परिवर्तनम् । यद्दास्यामीति यतये परिवर्तः प्रकीर्तितः॥ ३१॥ स्यादायातमभिहतं ग्रामवारगृहान्तरात् । योग्यमृजुसमासन्ना ऽऽलप्तमाद्गहतो यदि ॥ ३२ ॥ विमुद्रादिकमुद्भिनं मालिकाऽऽरोहणं मतम् । मालिकादिसमारोहणेनातीतं धृतादिकम् ॥ ३३ ॥ नृपतस्करभीत्यादेर्दत्तमाच्छेद्यमुच्यते । अनिसृष्टमीशानीशाऽनभिमत्या यदर्यते ॥ ३४ ॥ धात्रीदूतभिषग्वृत्तिनिमित्तेच्छाविभाषणम्। पूर्व पश्चात्स्तुतिः क्रोधचतुष्कं वश्यकर्म च ॥३५॥ स्वगुणस्तवनं विद्यामंत्रचूर्णोपजीवनम् । चेत्येते षोडशोत्पादनाख्या दोषा विभाषिताः ॥ ३६ । बाललालनशिक्षादिर्धात्रीत्वं दूतता मता। दूरबन्धुजनानां वाग्मयनानयनक्रिया ॥३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106