Book Title: Aachar Sara Author(s): Indralal Shastri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 70
________________ नवमोऽधिकारः । पंचविंशतिरुच्छासा.गोचरेातिचारयोः। जिनसाधुनिषद्यानां विण्मूत्रोत्सर्जनैनसि ॥४२॥ देवतास्तवने भक्ती चैत्यपंचगुरूभयोः। चतुर्दश्यां तयोर्मध्ये श्रुतभक्तिर्विधीयते ॥४३॥ स्यात्सिद्धश्रुतचारित्रशान्तिभक्तिचतुष्टयम् । अष्टम्यां श्रुतभक्त्योनमेतत्तीर्थशजन्मान ॥४४॥ पाक्षिके जिनचैत्ये च यद्यष्टम्यादिकर्मणाम् । संयोगो देवतापूजादर्शनस्तवनैः सह ॥४५॥ प्राक् शान्तिभक्तितस्तेषु चैत्यपंचगुरूभयोः। भक्ती स्तः सिद्धभक्तिः स्यात्सिद्धप्रतिकृतिस्तुतौ॥४६॥ त्रिकं। चतुर्दशीदिने कर्तुं क्रियां न लभते यदि। धर्मकार्यादिनाऽष्टम्याः क्रिया कार्या तु पाक्षिके ॥४७॥ नन्दीश्वरक्रियायां स्तः सिद्धनन्दीश्वरोभयोः । भक्ती पंचगुरूणां च शान्तिभक्तिस्तदन्तगा ॥४८॥ स्यात्सिद्धचैत्ययोः पंचगुरूणां स्नपनस्तवे । भक्ती सशान्तिभक्तिस्तु हीनमध्याद्विभक्त्यदः ॥४९॥ स्थिरेतरप्रतिष्ठायां चतुर्थस्नपने पुनः। चलचैत्यप्रतिष्ठायाः पूर्वोक्तनपनक्रिया ॥५०॥ द्विकम् । स्थिरप्रतिष्ठास्नानेऽस्मिन्नेवाऽऽलोचनाऽन्विता। चारित्रभक्तिः स्यात्किन्तु सिद्धभक्तेरनन्तरम् ॥ ५१॥ सिद्धभक्तिर्मुनौ ज्येष्ठे सिद्धान्तविदि सा युता। श्रुतभक्तयाऽऽचार्यभक्तया तु गणिन्धेतत्रयं पुनः॥५२॥ सूरौ सैद्धान्तिकेऽल्पेऽपि प्रतिमायोगसंस्थिते। सिद्धभक्तिर्भवेद्योगशान्तिभक्ती च संपते ॥ ५३॥ अत्र चरित्रभक्तिश्चेत्सिद्धभक्तरनन्तरम् ।। योगभक्तया परीतिश्च परिनिष्क्रम क्रिया ॥ ५४॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.orgPage Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106