Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
७८
आचारसारे
सूक्ष्मा कृष्टिगता क्रियति तनुगो योगोऽत्र सूक्ष्मक्रियं ध्यानं घप्रतिपात्यनश्वरमिदं नामाऽस्य तत्सार्थकम् । तन्नात्युद्यतराघघातनसमुघातक्रियाऽनन्तरं योगिन्यहति जीविते समुदभूदन्तर्मुहूर्ते स्थिते ॥ ५२ ॥ योगोऽस्मिन्महतो बभूव हि समुच्छिन्नक्रियं सुस्थितं ध्यानं घप्रतिपाति तेन तदभूदन्वर्थनामास्पदम् । लेश्यातीतमयोगकेवलिजिने शुक्लं चतुर्थ वरं निर्मूलप्रविलीनसंसृतिगदं स्वात्मोपलब्धिप्रदम् ॥ ५३॥ संस्कारातिशयः प्रसन्नहृदयस्त्यागी क्षमी प्रोद्यमी प्रव्यक्तस्वपरस्थितिः शुभवचोरत्नावलीराजितः। शूरः शीलपरो गुणस्थिररुचिर्भव्योऽभिमानी परं साध्वीं साधयति स्वभावसुभगामाराधनां नायिकाम् ॥ ५४॥ शेषेऽल्ये निजजीवने जनहितं देशं महीशान्वितं नानाजैनजनास्पदं सुखपदं सत्संगिनां योगिनाम् । संप्राप्यात्ममनोगतं बहुमतं सम्यनिवेद्य स्थितः सूरिभ्यः सकलैश्च तैः सुविदितः संघान्वितैः स्वीकृतः ॥५५॥ आचार्यैः परिचर्ययाऽऽहितहितैः सद्वयनपंचाशता द्वाम्यां वाऽतिजघन्यतः परिवृतःप्रीत्यात्तमार्थार्थ्यतः । आलोच्याऽऽत्मकृतं कृती त्रिकरणैर्दोष विशुद्धाशयः श्रुत्वातः प्रवरं प्रतिक्रमणमप्यारुह्य सत्संस्तरम् ॥५६॥ प्राज्ञोऽसौ क्रमशोऽशनं परिहरनेकैकमास्वाद्य तत्सम्यग्दर्शितमिष्टमिष्टमसकृत्कांक्षाक्षयार्थ बुधैः। हित्वाऽतस्त्रिविधाशनं धृतिकरं किं स्तोकमतन्मया भुक्तात्पूर्वमनेकमेरुमहतो मे तृप्तिकस्येत्यतः॥ ५७ ॥ त्यक्त्वाऽतः कुशलः क्रमेण विविधं धीरःसमाध्याप्तये पान सिक्थयुतं विलेपि सरसं निःस्नेहमच्छं पयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106