Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 99
________________ ९४ आचारसारे उपघातपरघातोच्छ्वासाऽऽतापचतुष्टयम् । उद्योतमेकं द्विविधं विहायोगतिकर्म यत् ॥ १८० ॥ त्रसबादरपर्याप्तप्रत्येकं स्यात् स्थिरं शुभम् । सुभगं सुस्वरादेययशस्कीर्ति च सेतरम् ॥ १८१ ॥ निर्माणमेकं स्यात्तीर्थकरनामाप्यनुत्तरं । उच्चनीचद्विभेदस्य पात्रं तद्गोत्रकर्म यत् ॥ १८२ ॥ स्यादानलाभभोगोपभोगवीर्यान्तरायतः। पंचभेदोऽन्तरायोऽयं दानाद्यन्तरमेति यत् ॥ १८३ ॥ त्रिंशव्यायंतरायेषु कोटीकोट्यः परा स्थितिः। सप्ततिर्मोहनीयस्य स्युर्विशतिर्नामगोत्रयोः ॥१८४ ॥ सागराणां त्रयस्त्रिंशत्स्यादायुष्यपरा स्थितिः । वेद्ये मुहूर्ताः स्युर्दादशाष्टौ ते नामगोत्रयोः ॥ १८५॥ शेषेष्वन्तर्मुहूर्तः स्यादात्मना सह संस्थितेः । कालः प्रतिक्षणं बद्धकर्मणां स्थितिरीरिता ॥ १८६ ॥ कर्मस्पर्शगुणो यस्तु सोनुभाग इतीष्यते। लतानिंबगुडायात्मनानाभेदैत्रिजैर्युतः ॥१८७ ॥ संतानापेक्षयाऽनादिः सादिनूतनबन्धनात् । प्रदेशः कर्मणः स्कन्धः प्रकृत्यादित्रयात्मकः ॥ १८८ ॥ जीवकर्मस्वरूपज्ञो विज्ञानातिशयान्वितः। कर्मनोकर्मनिर्मोक्षादात्मा शुद्धात्मतां व्रजेत् ॥ १८९ ॥ श्रीमान्नः परमां रमा निरुपमां दद्यादनंतो जिनो विज्ञानातिशयेन येन दुरितात्मानौ विभिन्नौ कृतौ। संपृक्तौ प्रतिपक्षहीनममितं प्राप्तं सदावस्थितं । शर्मानक्षजमक्षयं स्वतिशयं शुद्धात्मजातं नुतम् ॥ १९०॥ इति श्रीमद्वीरनंदिसिद्धान्तिचक्रवर्तिप्रणीते श्री ‘आचारसार' नाम्नि शास्त्रे जीवकर्मप्ररूपणात्मक एकादशोऽधिकारः ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106