Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 100
________________ द्वादशोऽधिकारः । अथ द्वादशोधिऽकारः ॥ १२ ॥ सद्वंशजः पेशलविश्वशीलः श्लिष्टो गुणैर्युष्टतरैर्विशिष्टैः। दुरंतदुःकर्महरः कृतार्थो धर्मो जिनः स्ताद्विजयश्रिये नः ॥१॥ धमैर्गुप्तिभिः करणसंज्ञाऽक्षप्राणसंयमैः। अष्टादशसहस्राणि शीलान्ान्योऽन्यसंगुणैः ॥२॥ सत्क्षान्तिमार्दवार्जवशौचाऽऽकिंचन्यसंयमाः। ब्रह्मचर्यतपःसत्यत्यागा धर्मा दश स्मृताः॥३॥ चत्वारः सत्क्षमाद्याः स्युश्चतुःक्रोधादिनिर्जयाः। परिग्रहपरित्यागस्त्यागः शेषाः पुरोदिताः ॥ ४॥ मनोवचनकायानां व्यापाराः करणास्त्रयः। ज्ञातास्त्रिगुप्तयः संज्ञाश्चतस्रोऽक्षाणि पंच च ॥ ५ ॥ प्राणा दशोधतोयाग्निमरुत्प्रत्येककायिकाः । अनंतकायाः स्युर्द्वित्रिचतुःपंचेन्द्रियांगिनः ॥६॥ क्षमायुक्ते मनोगुप्ते सुमनस्यशनास्पृहे । स्पर्शनोर्वीयमे शीलमाद्यमेवं पराण्यपि ॥ ७॥ एकविंशत्याहिंसाद्या अनतिक्रमणादयः। चत्वारः स्युः शतं प्राणप्राणिघातविवर्जनम् ॥८॥ प्रायश्चित्तानि शीलानामाराधनगुणा दश । आलोचनगुणाश्चैते गुणास्त्वन्योन्यसंगुणाः ॥ ९॥ व्रतान्यक्षनिरोधश्च मार्दवादिचतुष्टयम् । भीरत्यरतिजुगुप्साऽज्ञानपैशून्यवर्जनम् ॥ १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106