Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 101
________________ आचारसारे सम्यक्त्वमप्रमादश्च मनोवाकायगुप्तयः। एकविंशतिरित्येवमहिंसादिगुणाः स्मृताः॥११॥ अतिक्रमणव्यतिक्रमानाचारातिचारगाः। त्यागा अनतिक्रमणचतुष्टयमितीरितम् ॥ १२॥ दशप्राणैर्दशप्राणिष्वेकैकस्य वधाच्छतम् । प्राणप्राणिवधास्तेषां त्यागाः शतगुणा मताः ॥ १३ ॥ स्त्रीसंगोऽर्थार्जनं स्वांगमंडनं वृष्यभोजनम् । गीतं वाद्यं नगादिश्च शयनाशनभूषणम् ॥ १४ ॥ रात्रिसंचरणं राजसेवा कुत्सितसंगमः। इत्यमीषां परित्यागा दश शीलप्रसाधकाः ॥१५॥ दशाऽत्र पूर्वमुक्तानि प्रायश्चित्तानि विस्तरात् । आलोचनागस्त्यागाः स्युरालोचनगुणा दश ॥१६॥ सदयेऽतिकमापेते त्यक्तभूभूमिघातने । सालोचने व्यपेतस्त्रीसंगे आकंपितोज्झितं ॥१७॥ आद्यो गुणो भवेदेवं शेषान्नुच्चारयेद्गुणान् । गुणाश्चतुरशीतिः स्युर्लक्षाणीति प्रसिद्धिदाः ॥ १८॥ गुणादौ पंच संख्यानं प्रस्तारः परिवर्तनम्। नष्टमुद्दिष्टमित्येते गुणनादिक्रमा मताः ॥ १९ ।। पूर्वपूर्वेऽखिलाः सार्द्धमेकैकैरुत्तरोत्तरैः। मिलन्तीति क्रमात्तांस्तैर्गुणिते प्रमितिर्मता ॥ २० ॥ निक्षिप्याद्यादिकं पिंडं प्रति पिंडं क्रमात्क्षिपेत् । एकमेकं द्वितीयादेः समप्रस्तारके गुणे ॥ २१ ॥ द्वितीयाद्यौर्मितं पिंडं निक्षिप्याद्यादिमत्र तु । एकमेकं द्वितीयादेः प्रस्तारे विषमे क्षिपेत् ॥ २२ ॥ अन्तं गत्वाऽऽदिगे आये द्वितीयोऽकः सरत्युभौ । अन्तं गत्वाऽऽदिसंस्थौ चेत्तृतीयोऽन्येष्वयं क्रमः ॥ २३ ॥ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106