Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
एकादशोऽधिकारः :
देवेषु द्वौ वरा सप्त स्थितिर्दश चतुर्दशः । कल्पे द्वाविंशतिर्यावत् द्वयुत्तराः सागरोपमाः ॥ ६३ ॥ उपर्यकोत्तरस्तावत्स्यस्त्रयस्त्रिंशदन्तिमे । सौधर्मेशानजा एव देव्यः स्युः स्वस्वकल्पगाः ॥ ६४ ॥ अल्पं कल्पद्वये पल्यं साधिकं जीवनं वरम् । सौधर्मे पंच पत्यानि तानीशानादिषु क्रमात् ॥ ६५ ॥ एकादशसु कल्पेषु द्वयधिकानि तु चतुर्ष्वतः । सप्तोत्तराणि देवीनामहमिन्द्रस्ततः परम् ॥ ६६ ॥ यत्किल्विषिक सन्मोहा लान्तवान्तं भवन्ति ते । अच्युतावधि कंदर्पा आभियोग्यसुरा अपि ॥ ६७ ॥ सारस्वतादयो ब्रह्मलोके लौकान्तिकामराः । तेषामष्टावरिष्टे तु नवायुः सागरोपमाः ॥ ६८ ॥ आहारस्मृतिरुच्छ्रासः सागरोपमसंख्यकैः । समासहस्त्रैः पक्षैश्च यथासंख्यं सुरायुषि ।। ६९ ।। मिथ्यादृष्टिः सासादनो मिश्रः सुहगसंयतः । देशव्रती प्रमत्तः स्यादप्रमत्तश्च संयतः ॥ ७० ॥ स्यातामपूर्वकरणानिवृत्तिकरणौ ततः ।
स्युः सूक्ष्म सांपरायोपशान्तक्षीणकषायकाः ॥ ७१ ॥ जिनः सयोगोऽयोगः स्युश्चतुर्दश गुणा इति । मोहयोगसमुद्भूताः सिद्धास्तद्गुणनिर्गताः ॥ ७२ ॥ ( त्रिकम् ) स्युराहारशरीराक्षोच्छ्रासभाषामनस्त्विमाः । पर्याप्तयः समन्तादात्मस्थशक्तिसमृद्धयः ॥ ७३ ॥ सादिदेहोदयादाप्तां प्रारंभोऽकमतः क्रमात् । अन्तर्मुहूर्ते निष्पत्तिरपर्याप्तिस्त्वपूर्णता ॥ ७४ ॥ एकाक्षे विकलाक्षेषु चासंज्ञिनि संज्ञिनि । चतस्रः पंच पंचैताः षड् भवन्ति यथाक्रमम् ॥ ७५ ॥
Jain Education International
८५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106