Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 88
________________ एकादशोऽधिकारः । जलगे गर्भजे पूर्णे स्यात्पंचशतयोजनम् । स्थलगे गर्भजे पूर्णे त्रिकोशं तिर्यगंगिनि ॥ ३७ ॥ त्रिभोगभूजे त्रिद्वयेकक्रोशाः स्युः कर्मभूमिजे । चापाः पंचशतं पंचविंशतिश्च नरे वरम् ॥ ३८ ॥ चापाः स्युरसुरे पंचविंशतिः शेषभावन । व्यन्तरेषु दशोत्सेधो ज्योतिष्के सप्त देहगः ॥ ३९ ॥ कल्पेषु द्विद्विचतुर्षु चतुर्षु द्वयोर्द्वयोः । सप्त षट् पंच चत्वारस्त्रयः सार्द्धाः करास्त्रयः ॥ ४० ॥ त्रित्रित्रियैवेयकेष्वनुदिशानुत्तरेष्वतः । स्युः सार्द्ध द्विद्विद्वयद्वैककराः काये दिवौकसाम् ॥ ४१ ॥ कुलानां कोटिलक्षाणि स्युर्भूतोयाग्निवायुषु । द्वयुत्तरा विंशतिः सप्त त्रीणि सप्त यथाक्रमम् ॥ ४२ ॥ अष्टाविंशतिः सप्ताष्टौ नवार्द्धनित्रयोदश । वनस्पतौ द्वयक्षे त्र्यक्षे चतुरक्षे पयश्चरे ॥ ४३ ॥ नव दश द्वादशोरः परिसर्पे चतुष्पदे । विहंगे द्वादश नरे नारके पंचविशतिः ॥ ४४ ॥ देवे षड्विंशतिस्तेषां कोटिलक्षाणि पिंडतः । सार्द्ध सप्तनवत्यग्रशतमात्राणि देहिनाम् ॥ ४५ ॥ भौमभावनयोरायुर्जघन्यं चादिमेन्द्रके । दशाब्दानां सहस्राणि घर्मायां नवतिर्वरम् ॥ ४६ ॥ लक्षाणां नवतिः पूर्वकोट्योऽसंख्या दशांशकः । रत्नाकरोपमस्यास्यां द्वितीयादीन्द्रकत्रये ॥ ४७ ॥ एकत्रितप्ताद्युपमा दश सप्तदश क्रमात् । द्वाविंशतिस्त्रयस्त्रिंशदाद्युर्व्याद्यन्तिमेन्द्रके ॥ ४८॥ प्रथमादिवरायुष्यं समयोत्तरमीरितम् । द्वितीयादिजघन्यायुरिति कल्पेष्वयं क्रमः ॥ ४९ ॥ Jain Education International For Private & Personal Use Only ८३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106