Book Title: Aachar Sara Author(s): Indralal Shastri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 95
________________ ९० आचारसारे परिव्राड् ब्रह्मकल्पान्तं यात्युग्राचारवानपि । आजीवकः सहस्रारकल्पान्तं दर्शनोज्झितः ॥ १२८ ॥ यान्त्यच्युतान्तमुत्कर्षात्तिर्यचो मानवा अपि । सम्यग्दर्शनसंपन्नाऽसंयता देशसंयताः ॥ १२९ ॥ मर्त्यासंयतसदृष्टिदशव्रतिकुदृष्टयः । येन्त्यग्ग्रैवेयकान्तं ते यान्ति सद्रव्यसंयमात् ॥ १३० ॥ यान्ति सर्वार्थसिध्यतं नराः संयमिनॠयुताः । सर्वार्थसिद्धिजा मोक्षगाः स्युर्लोकान्तिका अपि ॥ १३१ ॥ सलोकपालाः शक्रादिदक्षिणेन्द्रा दिवच्युताः । शकाग्रमहिषीयुक्ता नृषु निर्वात्यनन्तरम् ॥ १३२ ॥ यस्यां जातिजरामृत्युक्शाश्लेषो न विद्यते । सोक्ता सिद्धगतियति तां मर्त्या गुणभूषणाः ॥ १३३ ॥ प्ररूपणानामन्योन्ययोजनक्रमबुद्धये । गुणस्थानानि योज्यन्ते मार्गणादिषु केषुचित् ॥ १३४ ॥ चत्वारि पंच सर्वाणि चत्वारि नरकादिषु । पंचेन्द्रिये से सर्वाण्याद्यं त्वन्याक्षकाययोः ॥ १३५ ॥ संज्ञ्याद्याः क्षीणमोहान्ताः संयोगान्ताश्च ते क्रमात् । मोषोभयमनोवाक्षु मनोवाक्ष्वपरेष्वपि ॥ १३६ ॥ पर्याप्तद्वन्द्रिया आदिस्तुरीयवचने पुनः स्थावरादिसयोगान्ताः पूर्णा औदारिके मताः ॥ १३७ ॥ कुदक्सासादनोऽ पूर्णः सुदृक् पुंवेद्यसंयतः । कवायोगी तन्मिश्रे मर्त्यतिर्यक्षु तद्द्वयम् ॥ १३८ ॥ पूर्णे वैक्रेयिकोsपूर्णे तन्मिश्रः सुरनारके । मिश्र न मिश्रः सासादनोत्पत्तिर्नरकेषु न ॥ १३९ ॥ आहारदेहपर्याप्त्या पूर्णापूर्णप्रमत्तयोः । अन्तर्मुहूर्तकालौ तु आहाराऽऽहारमिश्रकौ ॥ १४० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106