Book Title: Aachar Sara Author(s): Indralal Shastri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 87
________________ ८२ आचारसारे स्वयंभूरमणद्वीपसागरावन्तसंस्थितौ । सर्वे सार्द्धद्विकोद्धारसागरोपमसम्मिताः ॥ २५ ॥ जंबूद्वीपान्तु विष्कंभा द्विगुणद्विगुणाः क्रमात् । पूर्व पूर्व परिक्षिता वलयाकृतयोऽखिलाः ॥ २६ ॥ स्वस्वनामरसास्वादा लवणो वारुणीवरः । वार्द्ध क्षीरघृतवरौ चत्वार इति कीर्त्तिताः ॥ २७ ॥ कालोदकपुष्करवर स्वयंभूरमणार्णवाः । जलास्वादास्त्रयः क्षौद्र रसाः शेषास्तु सागराः ॥ २८ ॥ आमानुषोत्तरान्मर्त्त्या यतः सोन्वर्थसंज्ञकः । पुष्करद्वीपमध्यस्थः स गिरिर्वलयाकृतिः ॥ २९ ॥ स्वयंभूरमणद्वीपमध्यस्थाद्वलयाकृतेः । स्वयंप्रभाचलात्सर्वा कर्मभूमिर्वहिः स्थिता ॥ ३० ॥ स्वयंप्रभाचलादारात्परतो मानुषोत्तरात् । मध्याभूरन्तरद्वीपा जघन्या भोगभूमयः ॥ ३१॥ कोशोनं योजनं दैर्घ्यमेकं द्वादश साधिकम् । सहस्रयोजनं गोभ्यां भृंगे शंखेऽम्बुजे वरम् ॥ ३२ ॥ सम्मूर्च्छनजपर्याप्ते स्वयंभूरमणांबुधौ । सहस्रयोजनं मत्स्ये सरित्संगेऽस्य तद्दलम् ॥ ३३ ॥ लवणाब्धौ सरित्संगमेऽस्याष्टादशतद्दलम् । कालोदकान्ध तत्संधुसंगे च द्विगुणं ततः ॥ ३४ ॥ जलस्थलखगापूर्णे खगपूर्णे च गर्भजे । सम्मूर्च्छनस्थलखगे पूर्णे चापपृथक्त्वगः ॥ ३५ ॥ जलस्थलखगापूर्ण स्यात्सम्मूर्च्छनजन्मनि । वरो वितस्तिहाल्पः कुंथुमात्रः पयश्चरे ॥ ३६ ॥ १ रक्तवृश्चिके । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106