Book Title: Aachar Sara Author(s): Indralal Shastri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 86
________________ एकादशोऽधिकारः । पंचाक्षे नारके देवे चत्वारि तु चतुर्दश। नरे चतुरशीतिः स्युर्लक्षाण्येव विशेषतः ॥ १२ ॥ न जन्म शंखावर्तायां तीर्थशाश्चक्रिणो बलाः। कूर्मोन्नतायां स्युश्चान्ये वंशपत्राकृतौ परे ॥ १३ ॥ आदीन्द्र के त्रिहस्ताः स्युराद्यामन्तिमेन्द्रके। सप्तचापास्त्रिहस्ताश्च षडंगुल्यस्तनूच्छयः ॥ १४॥ द्वितीयायुर्वरान्तेन्द्रकेषु स्याद्विगुणः क्रमात् । नारकाणामयं हानिवृद्धी स्यातां परेषु तु ॥१५॥ ऋज्व्या गत्या समुत्पन्नस्तृतीयसमये वरः । देहः सूक्ष्मनिगोदस्य लब्ध्यपर्याप्तकस्य च ॥ १६ ॥ पल्याऽसंख्येयभागेन विभक्तं स्यादनांगुलम् । चतुर्वृद्धियुतोऽप्यस्मादालापादीदृशो मतः ॥ १७॥ लब्धिनिर्वृत्यपर्याप्तपर्याप्तेष्ववरो वरः । निर्वृत्यपूर्णपूर्णेषु विशेषः केषुचिद्यथा ॥ १८ ॥ घनांगुलस्य संख्येयभागः स्यादवरः क्रमात् । पूर्णद्वित्रिचतुःपंचाक्षाणां संख्यातसंगुणः ॥ १९ ॥ तज्जघन्यमणुंधर्या कुंथावप्यवगाहनम् । स्याकाणमक्षिकायां च सिक्थमत्स्ये यथाक्रमम् ॥ २० ॥ वरं त्रिचतुर्वक्षा प्रतिष्ठितेगमपूर्णके। पंचाक्षे च ततः पूर्णेऽमीषां संख्यातसंगुणम् ॥ २१ ॥ जंबूद्वीपः सुवृत्तोऽसौ मध्यलोकाऽतिमध्यगः । लक्षयोजनविस्तारस्ततः स्याल्लवणार्णवः ॥ २२ ॥ धातकीखंडद्वीपोऽतः स्यात्कालोदकवारिधिः। स्तः पुष्करवरौ द्वीपसागरौ वारुणीवरौ ॥ २३ ॥ तथा क्षीरवरक्षौद्रवरनन्दीश्वरादयः। मध्ये प्रशस्तनामानोऽसंख्येयाः समनामकाः ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106